________________
४३२ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ तसान्मानुषलोक एव कालः, स च परिणामी, न पुनरेक एव विच्छिन्नमुक्तावलीमणिवदविद्यमानपूर्वापरकोटिर्वर्तमानः समयोऽभ्युपेयते, निरन्वयसमयोत्पादविनाशप्रसक्तेः, एकनयावलम्बित्वं चैवं स्यात् , अतोऽनर्पितद्रव्यनयमतानुसारिभिः सन्ततिपक्षप्रतिज्ञानाद् विद्यमानतैव पूर्वोत्तरसमययोः, वर्तमानसमय एवोत्तरसमयरूपेणोत्पद्यते तथापरिणामात्, नापूर्वमुत्पद्यते खपुष्पादि, नापि निरन्वयमेव किश्चिद् विनश्यति कार्यत्वात् तत्सन्तानपतितत्वादुपान्त्यसन्ताननिरूपत्वात् , न पुनः सर्वथैवोद्भवविनाशौ निराधारावेव, ध्रौव्यं तयोराधारस्तस्मिन् सति तयोर्भावादिति । यच्च परत्वापरत्वादि काललिङ्गमभ्यधायि प्राक् तदपि नयान्तराभिप्रायादेव,
अन्यथा तु स्थितिविशेषापेक्षे हि परत्वापरत्वे, षष्टिवर्षाद् वर्षशतिकः परापरत्वादेः परः, अपरः षष्टिवर्ष इति, स च स्थानविशेषः षष्टिवर्षाणां शतं वर्षाणास्थितिविशेषापेक्षिता मिति स्थितेरेव, सा च सत्त्वापेक्षा, अस्तित्वादेव भावानाम्, अस्तित्वं
चानपेक्षमित्युक्तम्, तसात् कालापेक्षे परत्वापरत्वे न भवतः, योगपद्यमपि कर्तृषु व्यवस्थितं तेषामेव कर्तृणां कांश्चित् क्रियाविशेषानपेक्षते, न कालम् , न च ते क्रियाविशेषास्ताभ्यः क्रियाभ्योऽत्यन्तमेव नाना भवितुमर्हन्ति, यदा तु काकतालीयेनैक: कर्ता तथाविधक्रियामापद्यतेऽन्योऽपि को तथैव तक्रियापरिणतस्तदा युगपदिति व्यपदेशः, एवमयुगपदित्यपि भावनीयम् ॥ तथा चिरक्षिप्रयोरेष एव प्रपञ्चः, ते च गतिविशेषापेक्षे, गतिश्च परमाण्वादिद्रव्यप्रतिबद्धेति ॥ अथ करसादादावेकनयालम्बनेन सूत्रार्थमुपक्रम्य पुनर्नयद्वयेनोपसंहरति भवानित्याक्षिप्तेऽभिधीयते-विविक्तार्थसूत्रार्थदर्शनार्थत्वात्, आर्ष हि षष्ठं कालद्रव्यमितरद् द्रव्यविविक्तं दर्शयत्येकनयप्रवृत्तेः । न च जैने प्रवचने कश्चिदेको नयः समस्तं वस्तुस्वरूपं प्रतिपादयितुं प्रत्यलः, यतस्तत्प्रतिद्वन्द्विनयानुसारि सूत्रमपरमागमेऽस्ति
किमिदं भंते ! कालोत्ति पवुच्चति ? गोयमा ! जीवा चेव अजीवा चेव" । इदं हि सूत्रमस्तिकायपञ्चकाव्यतिरिक्तकालप्रतिपादनाय तीर्थकृतोपादेशि, जीवाजीवद्रव्यपर्यायः काल इति सत्रार्थः, कलनं काल:-प्रतिविशिष्टपर्यायोत्पादसङ्ख्यानम्, कल्यते वाऽनेन वस्त्विति कालः, स
च वर्तनादिरूपो द्रव्यस्यैव पर्यायः, तत्र स्वयं सद्भावेन वर्तमानमर्थ या प्रचोकालस्य पर्यायता दयति वर्तस्व वर्तस्व मा न वतिष्ठाः हेतुमण्णिचि "ण्यासश्रन्थो युच्" (पा०
___ अ०३, पा० ३, सू० १०७) इति स्त्रीलिङ्गे भावे वर्तना क्रिया, सा च वर्तितुर्थी वादनान्तरं कालस्तत्परिणामत्वात्, द्रव्यमेव काल इति कर्मधारयवृत्तिर्द्रव्यार्थाभेदविवक्षायाम्, नहि वर्तनादिक्रियाभ्यो भिन्नं द्रव्यमस्ति, एकस्यापि समयस्य प्रतिद्रव्यमभेदेन वृत्तत्वादान
१' यतो वर्तमान ' इति क-ख-पाठः। २ 'प्रसृतेः ' इति क-पाठः। ३ 'समस्तवस्तु' इति क-पाठः । ४ किमिदं भदन्त ! काल इति प्रोच्यते ? गौतम ! जीवाश्चैव अजीवाश्चैव । ५ "समयाइ वा आवलियाइ वा जीवाति या अजीवाति या पवुचद " इति पाठस्तु स्थानाङ्ग (सू० ९५)। ६' द्रव्यस्यैव पर्याया' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org