________________
-- तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ टी-स चैष काल इत्यादि । स इति प्रक्रान्तपरामर्शादेष इत्यनेन सूत्रेणानुसन्धीयते कालः, चशब्दो हेतौ, यसादनन्तसमयस्ततः परिणामीति, अनाद्यनन्तभाविन्यां समयपरम्परायां सख्यानं प्रत्यनिर्दिष्टलक्षणायां विशिष्टसख्यानिरूपणायेदमाह-अनन्तसमय इति । सप्रदेशः कालो द्रव्यत्वादात्माकाशादिवत् , ततश्च परिणाम्यपि प्रदेशवत्वात् तद्वदेवेति, तत्रेति तस्मिन् कालद्रव्ये वर्तमाने, एक एव प्रदेशः समयलक्षणः तिर्यगर्धतृतीयद्वीपसमुद्रद्वयव्यापी ऊध्र्वमधश्चाष्टादशयोजनशतप्रमाणः कालच्छेदेनानवयवः क्षेत्रच्छेदेनादेशोऽपि कल्पितावयवो भावभेदेन वा सावयवः, शेषद्रव्योपकार्योपकारकत्वेन स्वगतेन चागुरुलघुलक्षणेन परिणामेनेति, न चायमस्साकमेकान्ताग्रहोऽनवयव एवेति, किन्तु विभज्याविभज्यार्थस्य व्याक
रणादर्पितानर्पितसिद्धेः कालतो द्रव्यतश्चार्पितोऽनवयवः, तस्योत्पत्त्यनकालेऽवयवविचारः न्तरविनश्वरत्वात् , एकस्य समयस्य कालकृता देशा न सन्त्येव, यथा
कालकृतदेशैरनवयव एवं द्रव्यकृतदेशैरपीति, क्षेत्रतो भावतश्च सावयव एव, उत्पद्यमानसमयपरिणामिकारणमंतीतसमयकार्य वर्तमानावस्थामनुभूय वृत्तपर्यायमनुभविष्यति, प्राप्तवर्तमानत्वाच्च वय॑त्यपीत्येकैकसमयस्य द्रव्यता, अतः प्रदेशावयवबहुत्वात् का येव्यपदेश्योऽपि, कालद्रव्यप्रदेशावयवैनोस्ति कायता, व्यवहारस्तु रूढ्याऽस्तिकायैः पञ्चभिरेव प्रवचने, न चैतावतैवास्यास्तिकायताऽपह्नोतुं शक्या, आगमे तु कचित् प्रदेशे नित्यतया व्यवहारः, कचिदनित्यतया।न चैकान्तेन नित्यत्वमनित्यत्वं वायुक्तमित्यलं प्रसङ्गेन। प्रकृतमुच्यतेवर्तमान एकः समय इति निरूप्यैवमतीतानागतयोर्निरूपणायेदमाह-समयराश्योः कियती सख्येति ॥ अतीतानागतयोस्त्वानन्त्यम् ॥ अतीताः सपर्यवसाना वर्तमानावधिकाः सन्तत्याऽनाद्या इत्यतोऽनन्ताः, तथाऽनागताः साद्या वर्तमानावधिकाः पर्यवसानशून्याः सन्त. त्यैव, अनन्तस्य भाव आनन्त्यं-सङ्ख्याख्यो गुणः, स च न सख्येयसङ्ख्या नासख्येयसइख्येति, किं तर्हि ? अनन्तसइख्यैव, तुशब्दः समुच्चये । अतीतोऽनागतश्च समयराशिरनन्त इति, सौ चातीताद्धा अनागताद्धा च शेषकायेभ्योऽल्पबहुत्वचिन्तायां पृथगेवोक्ता, न पश्चास्तिकायधर्मत्वेनेति, अभव्येभ्योऽनन्तगुणाः सिद्धाः, सिद्धेभ्योऽतीतसमयराशिरसख्येयगुणः, असाद् भव्यास्त्वनन्तगुणाः, भव्येभ्योऽनन्तगुणाः वत्स्येत्समयाः, इत्येतदल्पबहुत्वमस्तिकायपञ्च( त्व एव ) कालद्रव्यस्य घटत इति ॥ ३९ ॥
भा०-अत्राह-उक्तं( अ० ५, सू० ३७) भवता-गुणपर्यायवद् द्रव्यमिति । तत्र के गुणा इति । अत्रोच्यते
... टी०-अत्राह-उक्तं भवतेत्यादिना सम्बन्धमावेदयति । द्रव्याधिकारसम्बन्धेन कालद्रव्यं सपर्यायमभिधाय गुणपर्यायस्वरूपं निरूपयितुकामो भाष्यकारः परमेव प्रश्नं कारयति ।
, 'मतीतः समय' इति क-पाठः । ३ 'म्य' इति क-पाठः । ३ ‘स चा' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org