________________
- सूत्र ४०] स्वोपज्ञभाष्य-टीकालङ्कृतम्
४३५ प्रतिपादितं भवता-गुणपर्यायपरिणामि द्रव्यम्, तत्र के गुणा यैस्तद्रव्यं गुणवदिति दिश्यते ? गुणग्रहणाच पर्याया गृहीता एवेत्यतो न भेदेन प्रश्नः, प्राक् च प्रतिपादितमेव गुणाः पर्याया इति चैकमित्युक्ते आचार्य आह-अनोच्यत इति । गुणस्वरूपमभिधीयते, यादृशा द्रव्यगुणास्तादृशाः प्रतिपाद्यन्त इति सङ्गिरते गुरुः ॥
सूत्रम्-द्रव्याश्रया निर्गुणा गुणाः॥ ५-४०॥ ____टी०—स्थित्यंशो द्रव्यं स आश्रयो येषां परिणामि कारणं परिणामविशेषाणां गुणानां ते द्रव्याश्रयाः, परिणामिपरिणामलक्षण आश्रयायिभावो नाधाराधेयलक्षणः, कुण्डबदरादिवत् । न च समवायलक्षणः संबन्धो युज्यते द्रव्यगुणानामनुपपत्तेः । अस्तु तावद् द्रव्यगुणानां समवायलक्षणः संबन्धः। समवायस्य गुणानां च यः सम्बन्धः स किं समवायोऽथ सम्बन्धान्तरम् ? । यदि समवायः, तस्य तेषां च किमभिधानः सम्बन्ध इति । समवायश्चेत्, अनवस्था, सम्बन्धान्तरमिति चेत् , आगमविरोधः स्पष्टतरमुच्यते, समवायाख्यः सम्बन्धः समवायिनोर्यदि वर्तते, ततः संयोगवृत्त्या समवायवृत्त्या वा वर्तेत ? संयोगवृत्त्या तावन्न वर्तते, कुतः १ अद्रव्यत्वाद्, द्रव्यविषयो हि संयोग इष्यते, न पुनद्रव्यगुणविषयः। अथ समवायवृत्त्या वतेते तत्र समवायस्ततो यद्यन्यसमवायवृत्त्या सोऽपि वर्तते ततोऽनवस्थोराहणीया ॥ एवमुक्ते वार्तिककारेणोक्तं समवायो न कचिद् वर्तत इति ब्रूमः, अनाश्रित एवासौ स्वतन्त्रः सम्बन्धो भवतीत्येतदप्ययुक्तम् । यदि द्रव्यगुणयोर्नाश्रितः कयाचिद् वृत्त्या न तर्हि द्रव्यं गुणैः सम्बद्धं तेन समवायाख्येन सम्बन्धेनानाश्रितत्वाद् द्रव्यगुणयोर्घटपटादिवत्, घटपटयोर्हि परस्परेण नास्ति समवायलक्षणः सम्बन्धः, तसाद् द्रव्यं परिणमते, गुणपयोयाः परिणामविशेषाः, ते च गुणा निर्गुणाः । नहि शुक्लघटकपालादीनां गुणपर्यायाणामन्ये गुणपर्यायाः सन्ति, द्रव्यस्य परिणामिनः शुक्लादिपरिणामो घटकपालसंस्थानादिश्च परिणामः, न पुनस्तस्यैव शुक्लादेरन्ये शुक्लादयः कुम्भादिसंस्थानस्य वाऽन्ये संस्थानादयस्तत्परिणामा विद्यन्ते, इत्यतो निर्गुणाः । एनमेवार्थ भाष्येण स्फुटयति
भा०-द्रव्यमेषामाश्रय इति द्रव्याश्रयाः, नैषा गुणाः सन्तीति निर्गुणाः४०॥
टी०-द्रव्यमेषामाश्रय इत्यादि भाष्यम् । द्रव्यं भव्यं योग्यं युगपदयुगपद्भाविन्याः गुणपर्यायपरिणतेः स्थितिः सामान्यमेषामुत्पादव्ययलक्षणानां ज्ञानादिशुक्लादिघटकशकलादीनामाश्रयः, परिणाम्यर्थो द्रव्यं, तद्धि ज्ञानशुक्लादिघटकादितया परिणमते, भूयस्तेनाकारेण विनिवर्तते, द्रव्यतया व्यवतिष्ठते, तदेषामुपन इति द्रव्याश्रयाः। इतिशब्द एवशब्दार्थे । एवशब्दस्त्ववधारयति, परिणामिपरिणामलक्षण एवाश्रयाश्रयिभावो न प्रकारान्तरेण, परिणामिपरिणामयोश्च द्रव्यपर्यायनयद्वयापेक्षयैकत्वान्यत्वभजनाविधिरुद्राह्य इति । तं भजनाविधिमुपन्यस्य
१. णामोऽतस्तस्यैव ' इति.क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org