Book Title: Tattvarthadhigamsutram Part 1
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
सूत्रं.३१] स्वोपज्ञभाष्य-टीकालङ्कृतम्
४०७ तस्मादुत्पन्न एवास्ति क्षणः, तस्मिंश्च नान्वयि किश्चिद् द्रव्यत्वादि विद्यते, ततश्च भूतान्वेषिणो न द्रव्यास्तिकं न मातृकापदास्तिकं किश्चिदस्ति, उत्पन्नास्तिकमेव तु सत् सन्तत्या द्रव्यं वा धर्मादि वाभिधीयते, न भूततस्तदस्ति, सन्तानस्य सांवृतत्वात, ते च वर्तमानक्षणा भूयांसः, तत्रैकक्षणविवक्षायामुत्पन्नास्तिकं सदिति विकल्पः, द्वित्वविवक्षायामुत्पन्नास्तिके वो सती, त्रित्वादिविवक्षायामुत्पन्नास्तिकानि वेति, यत् तत् सदेवं विवक्षया नियम्यते सङ्ख्याभेदेन व्यवहारार्थम् । यच्च परेण द्रव्यास्तिकं मातृकापदास्तिकं वाऽभ्युपेतं तदुत्पन्नमनुत्पन्न वा स्यात् ? यदि पूर्वः कल्पः असत्समीहितसिद्धिः, अथोत्तरस्ततोऽसदेव द्रव्यास्तिकादि, कथञ्चिदप्युत्पादनेनायोगादत आह-अनुत्पन्नं वाऽनुत्पन्ने वाऽनुत्पन्नानि वा सर्वमसत् स्वलक्षणस्योत्पादस्याभावादिति । एवमुक्तेन प्रकारेण धर्मादि द्रव्यं स्यात् सत् स्यादसत् स्यानित्यं स्यादनित्यमिति प्रतिपाद्यत्वेन सूचितम्, अधुना विपञ्च्यते । तत्र द्रव्या
र्थनयप्रधानतायां पर्यायनयगुणभावे च प्रथमविकल्पः, प्राधान्यं शब्देन सदादिभङ्गाः विवक्षितत्वाच्छब्दाधीनम् , शब्दानुपात्तस्यार्थतो गम्यमानस्याप्रधा
नता१। पर्यायनयप्रधानतायां द्रव्यनयगुणभावे च द्वितीयः २ । अर्पितेऽनुपनीते न वाच्यं सदित्यसदिति वेत्यनेन भाष्यवचनेन तृतीयविकल्पो विवक्ष्यते स्यादवक्तव्यमिति ३। एते त्रयः सकलादेशाः । यदा त्वभिन्नमेकं वस्त्वनेकेन गुणरूपेणोच्यते, गुणिनां च गुणरूपमन्तरेण विशेषप्रतिपत्तेरभावादिहात्मादिरेकोऽर्थः सत्वादेरेकस्य गुणस्य रूपेणाभेदोपचारतो मतुब्लोपेन वा निरंशः सकलो व्याप्तो वक्तुमिष्यते, विभागनिमित्तस्य प्रतियोगिनो गुणान्तरस्यासत्त्वादेस्तत्रानाश्रयणात् , तत्र द्रव्यार्थाश्रयं सत्त्वगुणमाश्रित्य तदा स्यात् सनित्युच्यते सकलादेशः, गुणद्वयं तु गुणिनो भागवृत्ति भवत्युभयात्मकत्वाद् गु. णिनः, न त्वेको गुणो भागवृत्तिरिति । एवं स्यानित्य इत्यपि वाच्यम् । तथा पर्यायनयाश्रयमसत्वमनित्यत्वं चाङ्गीकृत्य स्यादसत् स्यादनित्य आत्मेति वाच्यम् । युगपत् भावादुभयगुणयोरप्रधानतायां शब्देनाभिधेयतयाऽनुपात्तत्वात् स्यादवक्तव्यः ॥ का पुनर्भावना स्याद् सनिति ? किमत्र भाव्यम् ? एक द्रव्यमनन्तपयोयमतीतानागतानन्तकालसम्बन्ध्यनेकार्थव्यञ्जनपयोयस्मकतया विश्वरूपम् , तदेवंविधावस्थं वस्तु वर्तमानपर्यायवृत्तमपि येन.येन शब्देनोच्यते तेन तेन रूपेण तदभिसम्बद्धम् , द्रव्यस्य पर्यायसचिवत्वात् पर्यायाणां च द्रव्यसहायत्वात् , अतोऽनेकान्तवादसामथ्योद् वस्तुनो यदुक्तसूक्तिका, न च व्यवहारविरोधिनी, यथा घटः पटा. दिरपि भवति स्यात्कारसंलाञ्छनशब्दाभिधेयतायामिति जैनेन्द्रोन्यायः । एवं न्यायव्यवस्थायामनन्तपर्याये पुरुषादौ सप्तधा वाचकः शब्दः प्रवर्तते स्यादस्त्येवेत्यादिः, यथा युवत्ववृत्तिः, पुरुषः पुरुषत्वेनास्ति न तु बालवृत्त्या, ततः स्यादस्त्येव न पुनः सर्वात्मनैव पुरुषः द्रव्या
१. द्वित्वादिविवक्षायामुत्पादास्तिके वा सती सन्त्युत्पन्नास्तिकानि वेति' इति ग-टी-पाठः। २' चेति ' इति क-पाठः। ३. कस्य रूपेण' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546