Book Title: Tattvarthadhigamsutram Part 1
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra
________________
सूत्र २४] स्वोपक्षमाष्य-टीकालङ्कृतम्
३६३ णामो भिद्यमानवस्तुविषयत्वात् , तव्यतिरेकेणानुपलब्धेभिन्नद्वयमेव भेदः, तत्रौत्कारिकः
____ समुत्कीर्यमाणदारुप्रस्थकभेरीबुन्दाघर्षादिविषयः, अवयवशश्चूर्णनं चौर्णिभेदानां पञ्चविधत्वम् कालिप्तपिष्टमष्टिवत , खण्डशो विशरणं खण्डभेदः क्षिप्तमृत्पिण्डवत् , प्रतरभेदोऽभ्रपटलभूर्यपत्रादिषु बहुतिथपुटोच्छोटनलक्षणः, अनुतटभेदस्तु वंशेक्षुयष्टित्वगुत्पाटनम् , इतिशब्देन भेदेयत्तामवधारयति ।
भा०--तमश्छायातपोद्योताश्च परिणामजाः ॥ सर्व एवैते स्पर्शादयः पुद्गलेष्वेव भवन्तीत्यतः पुद्गलास्तद्वन्तः ॥ .
टी-तमइछायेत्यादि भाष्यम् । समानविचारत्वादेकप्रघट्टेन निर्देशः, एते च तमश्छायादयः पुगलद्रव्यपरिणामजा इति प्रतिपादयति । तमस्तावत् पुद्गलपरिणामो दृष्टिप्रतिबन्धकारित्वात् कुड्यादिवद् आवारकत्वात् पटादिवत्, छायापि शिशिरत्वादाप्यायकत्वाज्जलवाता
दिवत्, आतपोऽपि तापकत्वात् स्वेदहेतुत्वादुष्णत्वादग्निवत्, उद्योतश्च तमश्छायादीनां मूर्त- चन्द्रिकादिराह्लादकत्वाज्जलवत् प्रकाशकत्वादग्निवत्, तथाऽनुष्णाशीतद्रग्यविकारता त्वात् उद्योतः पद्मरागोपलादीनाम् ,अतो मूर्तद्रव्यविकारस्तमश्छायादिः॥
ननु च द्रव्यगुणकर्मनिष्पत्तिवैधाद् भीवाभावस्तमः, यदि चेदं द्रव्यं भवेदनित्यत्वाद् घटादिद्रव्यवत् निष्पद्येत, न च द्रव्यवनिष्पद्यते, अमूर्तत्वादस्पर्शत्वात प्रकाशविरोधादणुभिरकृतत्वाच, नापि गुणः, तदाधारानुपलब्धेः प्रकाशविरोधाच्च, कर्मापि न भवति, तदाश्रयानुपलब्धेः संयोगविभागसंस्काराहेतुत्वात्, अतस्तेजसो यत्राभावस्तत्र तमः, तथा तेजसो द्रव्यान्तरावरणाच तमो भवतीति । अत्रोच्यते-व्यवधानक्रियासामर्थ्यात् कुड्यादिवत् तमः पौद्गलम् , अमूर्तत्वास्पर्शत्वपरमाण्वकृतत्वान्यसिद्धानि मूर्तत्वादियोगात् तमसः, सत्यपि च मूर्तत्वादिमत्त्वे न स्पर्शादयोऽस्मदादिभिलक्ष्यन्ते, तमसस्तथाविधपरिणतिभावाद् वातायनदृश्यरेणुस्पर्शादिवत् । यत् तूक्तं-'प्रकाशविरोधात्' इति, न किल
किश्चित् कार्यद्रव्यं तैजसेन प्रकाशेन विरुध्यते, तमस्तु प्रकाशविरोधि, तमसः पुद्गलत्वम् तस्मान पृथिव्यादिकार्य तम इति, एतदयुक्तम् , तेजःप्रकाशयोरेकत्वा
भ्युपगमात् , जलद्रव्यं च विरोधकमित्यसिद्धार्थतैव, स्यादारेकानिरन्तरधारं वर्षति बलाहके प्रदीपोलिन्दकादिव्यवस्थापितः प्रद्योतत एव बहिः, यदि च विरोधः स्यान्न बहिः प्रकाशो विभाव्येत, जलपातेनापनीतत्वादिति । अत्रोच्यतेप्रादीपाः पुद्गलास्ताथात्म्यमपरित्यजन्तो निःसृताः तथाविधतामुदबिन्दुसम्पर्काद् विजहति, तत्समकालं चापरे प्रदीपशिखया विकीर्णाः कृशानुपुद्गलास्तमाकाशमश्नुवते, न च ते जलपातेन विध्यापयितुं शक्याः, परिणामवैचित्र्याद् वडवानलावयवा इवेति, स्याद्वादिनां च
१'कभदीबुन्दाघ' इति क-ख-पाठः। २'भावस्तमः' इति क-ख-पाठः । ३प्रदीपरश्मीनां पुष्करावर्तधारामिरप्यनुपघातात् , न सर्वथा जलानलयोर्विरोध एव , उत्पत्तिस्थान एव विरोधः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546