SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ सूत्र २४] स्वोपक्षमाष्य-टीकालङ्कृतम् ३६३ णामो भिद्यमानवस्तुविषयत्वात् , तव्यतिरेकेणानुपलब्धेभिन्नद्वयमेव भेदः, तत्रौत्कारिकः ____ समुत्कीर्यमाणदारुप्रस्थकभेरीबुन्दाघर्षादिविषयः, अवयवशश्चूर्णनं चौर्णिभेदानां पञ्चविधत्वम् कालिप्तपिष्टमष्टिवत , खण्डशो विशरणं खण्डभेदः क्षिप्तमृत्पिण्डवत् , प्रतरभेदोऽभ्रपटलभूर्यपत्रादिषु बहुतिथपुटोच्छोटनलक्षणः, अनुतटभेदस्तु वंशेक्षुयष्टित्वगुत्पाटनम् , इतिशब्देन भेदेयत्तामवधारयति । भा०--तमश्छायातपोद्योताश्च परिणामजाः ॥ सर्व एवैते स्पर्शादयः पुद्गलेष्वेव भवन्तीत्यतः पुद्गलास्तद्वन्तः ॥ . टी-तमइछायेत्यादि भाष्यम् । समानविचारत्वादेकप्रघट्टेन निर्देशः, एते च तमश्छायादयः पुगलद्रव्यपरिणामजा इति प्रतिपादयति । तमस्तावत् पुद्गलपरिणामो दृष्टिप्रतिबन्धकारित्वात् कुड्यादिवद् आवारकत्वात् पटादिवत्, छायापि शिशिरत्वादाप्यायकत्वाज्जलवाता दिवत्, आतपोऽपि तापकत्वात् स्वेदहेतुत्वादुष्णत्वादग्निवत्, उद्योतश्च तमश्छायादीनां मूर्त- चन्द्रिकादिराह्लादकत्वाज्जलवत् प्रकाशकत्वादग्निवत्, तथाऽनुष्णाशीतद्रग्यविकारता त्वात् उद्योतः पद्मरागोपलादीनाम् ,अतो मूर्तद्रव्यविकारस्तमश्छायादिः॥ ननु च द्रव्यगुणकर्मनिष्पत्तिवैधाद् भीवाभावस्तमः, यदि चेदं द्रव्यं भवेदनित्यत्वाद् घटादिद्रव्यवत् निष्पद्येत, न च द्रव्यवनिष्पद्यते, अमूर्तत्वादस्पर्शत्वात प्रकाशविरोधादणुभिरकृतत्वाच, नापि गुणः, तदाधारानुपलब्धेः प्रकाशविरोधाच्च, कर्मापि न भवति, तदाश्रयानुपलब्धेः संयोगविभागसंस्काराहेतुत्वात्, अतस्तेजसो यत्राभावस्तत्र तमः, तथा तेजसो द्रव्यान्तरावरणाच तमो भवतीति । अत्रोच्यते-व्यवधानक्रियासामर्थ्यात् कुड्यादिवत् तमः पौद्गलम् , अमूर्तत्वास्पर्शत्वपरमाण्वकृतत्वान्यसिद्धानि मूर्तत्वादियोगात् तमसः, सत्यपि च मूर्तत्वादिमत्त्वे न स्पर्शादयोऽस्मदादिभिलक्ष्यन्ते, तमसस्तथाविधपरिणतिभावाद् वातायनदृश्यरेणुस्पर्शादिवत् । यत् तूक्तं-'प्रकाशविरोधात्' इति, न किल किश्चित् कार्यद्रव्यं तैजसेन प्रकाशेन विरुध्यते, तमस्तु प्रकाशविरोधि, तमसः पुद्गलत्वम् तस्मान पृथिव्यादिकार्य तम इति, एतदयुक्तम् , तेजःप्रकाशयोरेकत्वा भ्युपगमात् , जलद्रव्यं च विरोधकमित्यसिद्धार्थतैव, स्यादारेकानिरन्तरधारं वर्षति बलाहके प्रदीपोलिन्दकादिव्यवस्थापितः प्रद्योतत एव बहिः, यदि च विरोधः स्यान्न बहिः प्रकाशो विभाव्येत, जलपातेनापनीतत्वादिति । अत्रोच्यतेप्रादीपाः पुद्गलास्ताथात्म्यमपरित्यजन्तो निःसृताः तथाविधतामुदबिन्दुसम्पर्काद् विजहति, तत्समकालं चापरे प्रदीपशिखया विकीर्णाः कृशानुपुद्गलास्तमाकाशमश्नुवते, न च ते जलपातेन विध्यापयितुं शक्याः, परिणामवैचित्र्याद् वडवानलावयवा इवेति, स्याद्वादिनां च १'कभदीबुन्दाघ' इति क-ख-पाठः। २'भावस्तमः' इति क-ख-पाठः । ३प्रदीपरश्मीनां पुष्करावर्तधारामिरप्यनुपघातात् , न सर्वथा जलानलयोर्विरोध एव , उत्पत्तिस्थान एव विरोधः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy