________________
३६४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ किश्चिद् द्रव्यं केनचित् सह विरुध्यते दध्यादि तैलादिना न तु गुडादिना, न च किश्चिन्न विरुध्यते तैलं दध्यादिना, न च तस्य द्रव्यता हातुं पार्यते, अतः परिणतिक्रमविशेषात् तथाविधं परिणाममपहाय पुद्गलाः परिणामान्तरेण वर्तन्ते पृथिव्यादिपरमाणुजातिनियमश्वासिद्धः, सर्वेषां स्पर्शत्वे सति रूपादिमत्त्वात् , गुणक्रिययोश्च द्रव्यपरिणाममात्रत्वात् तदाधारानुपलब्ध्याद्यप्यसिद्धम् , एतेन छायादयो व्याख्याताः । कथं पुनर्दपेणतलादिषु प्रतिबिम्ब मुखादीनां सम्मुखमेव छायाकारेण परिणमते न पराङ्मुखम् ? कथं वा कठिनमादर्शमण्डलं प्रतिभिद्य मुखतो विनिर्गताः पुद्गलाः प्रतिविम्बमाजिहत इति ? । यत् तावदुच्यते सम्मुखमेव प्रतिबिम्बमुदेति नान्यतोमुखमिति तत्र परिणामः स तादृशः पुद्गलानाम् , नहि तद्विषयः पयेनुयोगः कर्तुं शक्यः, को हि नामाभिदध्यात् प्रेक्षापूर्वकारी पयः किमिति दध्या
दित्वेन परिणमते तृणगोभक्ष्यादयो वा क्षीरादित्वेनेति, किमत्र युक्त्या ? प्रतिबिम्बस्य पोलोचना
वस्य तथा हि तं पश्यामः, न च दृष्टे किञ्चिदनुपपन्नम् , उपहास्यश्चैवमाचक्षाणो
- भवति, केन हेतुना वा चक्षू रूपं गृह्णाति ? तस्मान्न परिणामः पर्यनुयोगार्हः, येषामपि न परिणामस्तेषामपि मुखाद्याश्रित्यानेकं कारणं प्रतिबिम्बोत्पादः सप्रतिघस्तेनाकारेण भवति नान्येनेति तुल्यः पर्यनुयोगो विधेयः, प्रतिभेदः पुनः कठिनशिलातलपरिश्रुतजलेनायस्पिण्डेऽग्निपुद्गलप्रवेशेन शरीरात् प्रस्वेदवारिलेशनिर्गमनेन च व्याख्येयः प्रतिबिम्बोदयः शुचौ दपेणेऽन्यत्र वा, तमश्छायादयः पुद्गलपरिणतिविशेषाः ॥
सम्प्रति निगमयति सूत्रद्वयोपात्तमर्थ सर्व एवैत इत्यादिभाष्येण । स्पर्शरसगन्धवर्णशब्दादयः पुद्गलेष्वेव भवन्त्यतः पुद्गलाः स्पादिमन्त इति नित्ययोगार्थ विहितस्तत्परिणामविशेषाविष्कारी मतुपूप्रत्ययः, स्पर्शादिशब्दादिपरिणामो येषामात्मभूतो येषु वा ते तद्वन्त इत्यनन्यत्वं प्राक्तनपरिणामापेक्षया चान्यत्वमिति ।।
भा०-अत्राह-किमर्थं स्पर्शादीनां शब्दादीनां च पृथक्सूत्रकरणमिति॥ अत्रोच्यते-स्पर्शादयः परमाणुषु स्कन्धेषु च परिणामजा एव भवन्ति । शब्दादयश्च स्कन्धेष्वेवे भवन्त्यनेकनिमित्ताश्चेत्यतः पृथक्करणम् ॥ २४ ॥
टी०-अत्राहेत्यादि भाष्यम् । गरीयस्त्वात् पृथग्योगस्य एकयोगप्रतिबन्धाचाभिलषितप्रसिद्धेः प्रश्नयति, आचार्यस्तु विवक्षितार्थप्रतिपत्तेरभावादेकयोगसङ्ग्रहव्युदासायाहस्पर्शादय इत्यादि । प्राक्तनसूत्रोपन्यस्ताः स्पर्शादयः परमाणुषु स्कन्धेषु च घणुकादिषु नानाविधपरिणामोत्पत्तेः प्रादुर्भवन्ति, शब्दादयः पुनः स्कन्धविषया एव, नाणुविषयाः, धणुकादिस्कन्धविषयत्वप्राप्तौ नियमेन विकल्पयति, चशब्देनानेकनिमित्ताश्चेति, शब्दो न घणुकादिविषयोऽनन्ताणुकस्कन्धविषयत्वात्, एवमन्यदप्यायोज्यं सम्भवात्, अतः पृथग्योगकरणं विवक्षितमर्थ पुष्णाति नैकयोग इति ॥ २४ ॥
१. भवन्तीति' इति घ-पाठः। २ अन्ययोगव्यवच्छेदफलोऽयं तेन न सर्वस्कन्धविषयाः शब्दादय इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org