________________
सूत्रं २५] : स्वोपज्ञभाष्य-टीकालङ्कृतम्
. ३६५ • भा०–त एते पुद्गलाः समासतो द्विविधा भवन्ति ॥ तद्यथा- टी०–त एते पुद्गला इत्यादिसम्बन्धग्रन्थः । सत्यपि पुद्गलजातीयत्वे निरवयवसावयवभेदात् परिप्राप्तानन्त्या अपि आहितद्वैविध्या वेदितव्या इत्यभिप्रायः, य एते स्पर्शादिशब्दादिपरिणतिभाजः पुद्गलास्ते संक्षेपाद् द्विविधा भवन्ति, द्वैविध्योपन्यासाय तद्यथेत्याहपुद्गलानां
- सूत्रम्-अणवः स्कन्धाश्च ॥ ५-२५॥ वि . टी०-अण्यन्त इत्यणवोऽस्मदादीन्द्रियव्यापारातीतत्वात् केवलसं
- शब्दनसमधिगम्याः सौक्ष्म्यात्, स्थौल्याद ग्रहणादानादिव्यापारसमथो: प्रायः स्कन्धाः सङ्घाताः इति, चशब्दः समुच्चेता, समस्तपुद्गला एव विविधाः-परमाणवः स्कन्धाश्चेति, तत्र परमाणोलेक्षणमाचार्यैः पूर्वकैरेवावाचि तदुपन्यासाय उक्तं चेत्याहभा०-उक्तं च
"कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः।
एकरसगन्धवों, विस्पर्शः कार्यलिङ्गश्च ॥"-आयो इति।
____टी०-कारणमेव तदन्त्यमित्यादि । करोतीति कारणं सकलभेदपर्यन्तवर्तित्वादन्त्यं, व्यणुकस्कन्धप्रभृति स्थूलसूक्ष्मभेदं कार्य यावदचित्तमहास्कन्धः, स एष कारणकार्यविभागः कारिकया निरूप्यते-मूर्तस्य वस्तुनः कारणं परमाणवो ब्यणुकादेः, अमूर्तस्य ज्ञानादेरात्मादयः, तचोभयमपि कारणं न सर्वथा नष्टम् , असत्त्वापत्तेः, न च तादृगवस्थ किञ्चिजनयति व्योमपुष्पादिवत्, नानष्टमेकान्तेनैवाविकृतत्वात् प्रागवस्थावत्, न चान्यावस्थाऽस्त्येका. न्तवादिनः कार्यकारणाभ्युपगतौ ॥ ननु चावक्तव्यपक्षः प्रज्वलति पक्षान्तरत्वात्, इत्ययुक्तम्, अवक्तव्यतायाः सुदुःस्थितत्वात्, वक्तुमशक्यत्वात् तावदवक्तव्यं न भवति, लोके तथा प्रतीतत्वात, नाज्ञानात्, आप्तस्य तदनुपपत्तेः, नाभावाद् वस्तुनः, तथादृष्टत्वात्, एवं तोयमन्यः पक्षः कारणकार्ययोनाशोत्पादसमकालत्वात्, एषाऽपि हि व्यवस्था नातिकामति पूर्व विकल्पद्धयम्, यतः कारणं नष्टं कार्य चोत्पन्नम् । अनष्टे तावत् कारणे न कार्योत्पादः । अथैवं मन्येतकारणं च विनश्यति कार्य चोत्पद्यते, तदपि विचाराक्षमम्, तत्र विनश्यतीत्यनेन विनाशक्रियाविष्टमेकं वस्तूच्यते स्वरसभङ्गुरं वर्तमानकालावधिकमनासादितसमस्तनाशमर्धनष्टमतोऽयं बाह्यार्थः किंचिन्नष्ट किश्चिच्चानष्टमुभयधर्माघातं विनश्यतीत्यनेन प्राप्तक्रियापवर्गमार्गमभिधीयते वस्तु, न चैवमसम्बद्धबुद्धव्याहारोपहतचेतसः सौगताः सङ्गच्छन्ते, अमिबैकतुलादण्डकद्रव्यप्रतिबद्धान्तद्वयस्य वा युक्ते नतोन्नती समकमत्र तु विनश्यति वस्तुनि नैकं किश्चिदमिन्नमस्त्यन्वयि प्रदीर्घतुलादण्डकाकृति कारणं यत्प्रतिबद्धौ नाशोत्पादौ युगपद भवेताम् , पूर्वोत्तरक्षणयोश्चात्यन्तभेदे सभागसन्ततिरियं विसभागसन्ततिरेषेति व्यपदेशाभावात् वसन्ततौ फलाधानमसाम्प्रतम् , नहि बुद्धसन्तानोऽस्मत्सन्ताने फलमाधातुमुत्सहते, तस्माद् यत् किश्चिदेतत् ॥ प्रकृतमनुश्रियते तत्र परमाण्वात्मादि परिणामिकारणम् , तस्मिन्
१ 'विनश्यतीत्यप्राप्तः' इति क-ख-पाठः। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org