________________
३६६
कार्यकार
णम
तस्वार्थाविगमसूत्रम्
[ अध्यायः ५ सति भवत्येव कार्य व्यणुकादि ज्ञानादि वा, अन्यथा तु न भवत्येव, यूतो यस्मिन् सति भवत्येव यस सद्भावस्तदभावे च न भवत्येव यत् तत् कारणमितरत् कार्यम् , एवं च यहच्छया प्रासानां व्योमाराममहीधादीनां कारणभावोऽन्यत्र निराकृतोऽवसेयः। एवमप्यनुपप
____ नमवधारणं यस्मिन् सति भवत्येव कार्य न भवत्येव चान्यथेति, यतः
'५ करवीरजन्मारुणोत्पलफलात् स्वकाण्डात् स्वबीजाच दृष्टम्, दूर्वा च गोलोमाविलोमादिभ्यः, सरस्तु शृङ्गादिति, अत्रोच्यते-परमाणुषु सत्सु भवत्येवेदमात्मनि चेत्यदोषः, सक्षेपात् परिणामिकारणापेक्षाः परिणामाः प्रतिस्वमासादयन्त्युपजननं कारणवैकल्ये तु न प्रादुष्यन्ति मन्त्रप्रतिबद्धविषमारणशक्तिवत् । इत्थं निरवयं कार्यकारणलक्षणम् । यान्यपि कर्तृनिमित्तापेक्षाख्यानि कुम्भकारदण्डाकाशादीनि तान्यप्यनयैव दिशा योजनीयानीति न कश्चिद् विरोध इति सूचनीयः सूक्ष्म आगमसमधिगम्योऽस्मदादिभिः, नित्यश्चेति द्रव्यास्तिकनयापेक्षयाऽनुज्झितमूर्तिः, पर्यायापेक्षया तु नीलादिभिराकारैरनित्य एवेति, न ततः परमणीयोऽस्ति द्रव्यमिति परमाणुः, पञ्चानां रसानां द्वयोर्गन्धयोः पञ्चविधस्य वर्णस्यान्यतमेनैकेन रसादिना युक्तः, चतुर्णा स्पर्शानांमध्ये स्पर्शद्वयेनाविरुद्धेन युक्तः कार्येणास्मदादिप्रत्यक्षदृश्येन बादरपरिणामभाजाऽनेकविधेन लिङ्ग्यते-समधिगम्यत इति । अणुस्कन्धभेदप्रतिपादनायेदमाह
भा०-तत्राणवोऽबद्धाः, स्कन्धास्तु बद्धा एवेति ॥ २५ ॥
टी०-तत्राणव इत्यादि । अबद्धाः परस्परेणासंयुक्ताः परमाणवः, स्कन्धाः पुनबोदरपरिणामपरिणता अष्टस्पर्शा बद्धा एवाणुसङ्घाताः, सूक्ष्मपरिणामभाजस्तु चतुःस्पशी एव भवन्ति बद्धाश्थे(एवे)ति परस्परसंहत्या व्यवस्थिता इति ॥ २५ ॥
भा०-कथं पुनरेतद् द्वैविध्यं भवतीति ? । अत्रोच्यते-स्कन्धास्तावत् ॥ अत्राह
.टी-अत्राहेत्यादिसम्बन्धग्रन्थः । अज्ञः प्रश्नयति-परमाणवः स्कन्धाश्चेति किंववोऽयं विशेषस्तुल्ये पुद्गलद्रव्यत्वे ? मूरिराह-स्कन्धास्तावदित्यादि । क्रमप्राप्तेषु परमाणुषु वक्तव्येषु स्कन्धास्तावद् बहुवक्तव्यत्वात् प्रथममुच्यन्ते, तावच्छब्दः क्रमभेदावद्योतनार्थः, यथा च ते स्कन्धाः समुद्भवन्ति तथा सूत्रऽत्र दर्शयति
सूत्रम्-सङ्घातभेदेभ्य उत्पद्यन्ते ॥५-२६ ॥
भा०-सङ्घाताद् भेदात् सङ्घातभेदादित्येभ्यस्त्रिभ्यः सङ्घातोद्भवे । त्रिकारणता दव कारणेभ्यः स्कन्धा उत्पद्यन्ते द्विप्रदेशोदयः।
टी.-सङ्घातादित्यादि भाष्यम् । एतदुक्तं भवति-संहतत्वाद् भिन्नत्वात् सङ्घातभेदाच स्कन्धानामुद्भवः । इतिशब्दः कारणेयत्ताप्रकाशनार्थः, विप्रदेशाय इति सकलस्कन्धराशेरायस्कन्धोपन्यासभावनयाऽशेषस्कन्धविषयः सङ्घातः सुज्ञान इत्यादिग्रहणमुदचीचरत् ॥
१'ततो यस्मिन्' इति क-पाठः। २'गोलोमानुलोमा' इतिक-पाठः। ३'यथा वा' इति क-ख-पाठः।
जानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org