________________
सूत्र २६ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
भा०- तद्यथा - द्वयोः परमाण्वोः सङ्घातात् द्विप्रदेशः, द्विप्रदेशस्याणोच सङ्घातात् त्रिप्रदेशः, एवं सङ्ख्येयानामसङ्ख्येयानां च प्रदेशानां सङ्घातात् तावत्प्रदेशाः ॥
डी० - तद्यथेत्यादिना सङ्घातादित्रितयं भावयति, स्कन्धोत्पादकारणं त्रिविधम्, प्रकारान्तराभावप्रदर्शनपरमिदं वचनं मुनेः, द्वयोरित्यादि द्वयोरणुकयोः सङ्घाताद् अन्योन्याश्लेषपरिणामात् कस्कन्धो निष्पद्यते, वक्ष्यत्युपरिष्टात् (अ०५, सू० ३२ ) - (स्निग्धरूक्षत्वाद् बन्धः ' इति कथं पुनर्निरवयवयोर्द्वयोरणुकयोः संहतौ व्यणुकः स्कन्धो निष्पद्यते, एवं मन्यते - तयोर्हि संश्लेषः परस्परेण सर्वात्मनैकदेशेन वा भवेत् ? यदि च सर्वात्मना ततः सकलमपि जगदेकपरमाणुमात्रं स्यात्, एकदेशेन चेत् सावयवोऽणुः प्रसज्यते, सैषोभयतः पाशा रज्जुरिति दुर्घटः सङ्घातः, तस्मात् परमाणवः परस्परेणानाश्लिष्टा एव प्रत्यासत्तिभाजः केशा इवाकाशे समुदिता एवोपलभ्यन्तेन विदूरवर्तिन इति प्रतीतं तथा दर्शनमा विद्वदङ्गनाबालम्, परस्परसङ्घट्टस्त्वसम्बध्यमानकत्वादुपेक्षणीय इति । अयुक्तमेतदुच्यते परेणाप्रेक्षितवस्तुयाथात्म्येनेति यथा तथा विभाव्यते, परमाणवो हि रूपरसगन्धस्पर्शात्मकत्वात् सप्रतिघाः संयोगकाले सव्यवधयो न परस्परव्याप्त्या वर्तन्ते रूपाद्यवयवत्वात्, स्तम्भकुम्भादिवत, प्रतिपादितश्चायमर्थः प्राक् - स्यानिरवयवः स्यात् सावयवः परमाणुर्द्रव्यभावभेदात् अपि च द्रव्यात्मनाऽणुरेकः प्रत्यस्तमितस कलभेदस्तत्र कथं सर्वशब्दः प्रयुज्यमानोऽनेक वस्तुविषयो निरवशेषाभिधायितया लोकेऽविगा - नेन रूढो नासम्बन्धार्थो भवेत् ? कथं वा नानाध्यवसितस्य वस्तुनः कस्यचिदेवाभिधाय्येकदेशशब्दो निर्भेदपरमाणुविषये प्रसज्यमानः साध्यमानं प्रतिपत्स्यते ? सोऽयमेवंविकल्पद्वयानुसारी वचनप्रयोगः शब्दार्थानभिज्ञानानामत्यन्तप्रसिद्धलोकव्यवहार पराङ्मुखानां जडिमानमातनोति क्षुद्रसत्त्वानाम् । आशङ्कते चैवंप्रकारान् कातरपुरुष एवैकान्तवादी, न पुनः सकलवादपरमेश्वरस्याद्वादसमाश्रयोपपन्नातुलसामर्थ्यः स्याद्वादीति । न च परमाण्वन्तरेण सह घटमानोऽसौ केनचिद देशेन युज्यते निरवयवत्वात्, किन्तु स्वयमेवावयवो द्रव्यान्तरावयवद्रव्यरहितः परमाणुना सह भेदेन योगमायाति, न चाण्वन्तरमाविशति, स हि सक्रियः परमाणुस्थमाकाशमेवाविशति, अणुस्तिष्ठत्यस्मिन्नित्यणुस्थं करणाधिकरणयोर्घञर्थे कविधानम् । स्थास्त्रापाव्यधिहतिबुध्यर्थमणौ वा तिष्ठतीति विवक्षावशादणुसम्बद्धमुच्यते । यद्यावेशो नास्ति देशे न तर्हि योगः प्रसक्तः, परस्परमनाश्लिष्टत्वाद् द्व्यङ्गुलवदिति, अयमनपदेशः, न वयमावेशतो योगं सङ्गिरामहे, किन्तु निरवयवत्वात्, तस्य द्रव्यप्रदेशान्तरं द्व्यङ्गुलस्येव संयुक्तं नास्ति, स्वयमेवासौ युक्त इत्येतावदभिदध्महे, हेतोचानैकान्तिकता, सूक्ष्मक्षेत्रच्छेदप्रविभक्तद्व्यङ्गुलपर्यन्तवर्तिनौ प्रदेशौ निरन्तरावस्थितावनाविशन्तावेव संयुक्तौ न च देशेन, सूक्ष्मत्वादन्यस्य देशान्तरस्यासम्भवात्, न च नाङ्गुल्यौ युक्ते, निरन्तरत्वात् न चान्योन्यावेशः प्रदेशानाम्, द्व्यङ्गुलाभावप्रसङ्गादिति । ननु च संस्थानित्वात् सावयव एवाणुः किमिति निरवयवता अभ्युपेयत इति ? उच्यते-द्रव्यावयवकृतं संस्थानम्, तच्चावयविनो घटादेरवयवेषु सत्सु भवति, ते
,
३६७
१ अनन्तानामनन्तानन्तानां ' इत्यधिको घ-पाठः । २ स्तम्भादिवत्' इति क ख पाठः । ३ ' संघटमानो' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org