________________
३६८
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ चाणोर्न सन्त्यतो निरवयवत्वात् संस्थानित्वासिद्धिः, एवं त_संस्थानित्वादसत्परमाणुरिति, उच्यते-व्योमासंस्थानमपि सदेवेत्यनेकान्तः, न च कन्दुकादिवद् दृष्टपरिधित्वेनाभ्युपगम्यते विहायः, सर्वलोकशास्त्रानुमानविरोधादिति । योऽप्याशङ्केत अभूतान्तर्बहिर्भावान्यदेशत्वेन युष्माभिरभ्युपगतत्वान्नास्ति परमाणुः, तस्यापि हेतोर्निरंशैकक्षणवृत्तिविज्ञाने वर्तमानत्वादनैकान्तता । अपि च -योगः सम्प्राप्तिलक्षणः न चासौ प्रदेशैरेव क्रियते, निष्प्रदेशस्यापि स्वयं प्राप्तिरस्त्येवेति । एतेन नास्तित्वं प्रतिषिद्धमप्यवसातव्यम्, अवयवैरकृतत्वात् तस्येति, पिष्टपेषणं चैतत् कार्या( रया )महे वयम्, उक्तं प्राक्-सर्वमेवं हि स्थूलं प्रविभज्यमानमवश्यन्तया निरवयवनिष्टमुपजायते द्रव्यं, सूक्ष्मपूर्वकत्वात् स्थूलस्येति । आह च-" सर्व सविभागमविभागप्रविष्टम्," यत् पुनस्तेषामेकस्मिन्नेवाकाशप्रदेशेऽनन्तानामप्यवगाढत्वं तदप्रतिघातपरिणामपरिणतत्वात् व्याप्तैकापवरके प्रदीपप्रभयेवान्यप्रदीपप्रभाणाम्, शीततमःशब्दत्वपरिणतपुद्गलानां चाप्रतिघातित्वदर्शनात, तद्वत् परमाणुरेकस्मिन् व्योमप्रदेशे व्यवस्थितोऽन्येषामपि परमाणूनां भूयसामवगाहमानानां विधातं प्रति न निवर्तितुमुत्सहते, कथं तर्हि असति प्रतिघाते महतो द्रन्यस्य निष्पत्तिः ? सङ्घातस्तु सति संयोगे सम्भवति, संयोगश्चाप्राप्तयोः प्राप्तिमात्रं, नान्योन्यावेश इति, उच्यते-महतो द्रव्यस्यारम्भकाले परमाणूनामप्रतिघातित्वमसान् प्रत्यसिद्धम्, यतस्त्रिविधं प्रतिघातमामनन्ति भगवन्तः परमाणूनां-बन्धपरिणामोपकाराभाववेगाख्यम्, तत्र बन्धपरिणामप्रतिघातः स्निग्धरूक्षत्वाद् बन्ध इत्यत्र (सू०३२) वक्ष्यमाणः, उपकाराभावलक्षणप्रतिघातो गतिस्थित्युपग्रहो धर्माधर्मयोरुपकार इत्यत्र (अ० ५,
___ मू० १७) सूत्रे.क्षिप्तः प्रेक्षणीयः, लोकादन्यत्र जीवानामजीवानां परमाणूनां प्रतिघात
" च गतेः प्रतिघातो गत्युपग्रहहेतुरहितत्वाज्झपमकरादेरिवाम्भसोऽन्यत्र, स्य त्रैविध्यम्
अन्वयः सामान्येन सुशक्यः कर्तुम् , अतः परमाणुलोकान्ते प्रतिहन्यत इति उपकाराभावात् प्रतिघातितेति, तथाऽणोरण्वन्तरेणापतता विस्रसासमुद्भूतगतिरंहसा प्रतिघातो दृष्टः, प्राप्तवेगगतिर्हि परमाणुरापतन् जविनमेव परमाणुं प्रतिहन्ति, वेगवत्त्वे सति स्पर्शवत्त्वान्मूर्तिमत्त्वाच्च प्रबलवेगः प्रभञ्जनो वौद्यान्तरमिवेति प्रतिघातित्वं वेगादध्यवसीयत इति, एवमनेकयोपपत्त्या प्रतिघातित्वाप्रतिघातित्वे परमाणुविषये प्रसाधिते, सम्प्रति तेषामेकव्योमप्रदेशास्कन्दिनामणूनामनन्तानामपि कदाचित् संयोगवृत्त्यावस्थानमनारब्धस्कन्धकार्याणामेव जातुचिद् बन्धाकारेण घटितकार्याणाम् । कः पुनरनयोः संयोगबन्धयोर्विशेष इति ।
उच्यते-नैरन्तर्येणावयवप्राप्तिमात्रं संयोगः, बन्धः पुनरन्योन्याङ्गाङ्गिभासंयोगबन्ध
व वपरिणाम इति, विरोधोद्विभावयिषया कश्चिदाचक्षीताविचक्षणः-कथमेयोर्विशेषता
__कस्यैवाणोः प्रतिघातित्वाप्रतिघातित्वे परस्परविरुद्ध स्त इति ? उच्यतेविरोधाभावः प्रागुक्तः, अपि च-परिणामविशेषादुभयमपि सम्भाव्यते पुद्गलेषु, शब्दस्तावत् तिरस्कृतोऽपि कुड्यादिभिरप्रतिहन्यमानः श्रवणपथमभ्युपैति, स एव कदाचिदुह्यमानत्वाद् वायुना प्रतिहन्यते, प्रतिवातस्थितेनानुपलभ्यमानत्वादनुवातस्थितेन चोपलभ्यमानत्वाद् गन्धवत्, उद्यते च वायुना शब्दो मा स्म संशयिष्ठाः, तस्मात् सुपूच्यते-सङ्घातादुत्पत्तिः स्कन्धानाम्, १'व्योमदेशे' इति क-ख-पाठः । २वाद्यन्तरमिवेति' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org