________________
३६९
सूत्रं २६]
स्वोपत्रभाष्य टीकालङ्कृतम् एकदेशयोगस्तु दूरादुत्सारितः,कृत्स्नसंयोगस्तु कदाचिदुपचारवशादिष्येताप्यनवयवत्वात कृत्लो योगो नावेशतो ह्येषामिति ॥ अथ यदुक्तमनाश्लिष्टा एवाणवः प्रत्यासत्तिभाजः समुदिता विभाव्यन्ते, तदतितरामसमञ्जसम्, अणु पमवस्थानानामसंहतत्वाच दर्शनं न स्यात्, कस्तेषामतिश. योऽतीन्द्रियाणामुपाजनि प्रत्यासत्तावसंहतानां येन ते लोचनादीन्द्रियगोचरतामापद्यन्ते, नहि पूर्वावस्थायामेककाः सन्तोऽदृष्टास्तद्वदुत्तरावस्थायामपि न दृश्येरन्, नहि शक्या विच्छिन्ना अणवोऽनन्ता अपि द्रष्टुम् । केशनिदर्शनादेवं प्रतीयत इति चेत्, तदयुक्तम्, केशा ह्येकका अपि कदाचिद् दृश्या भवन्ति, न कदाचिदू अणवः प्रत्येकं चक्षुरादिग्राह्याः, परस्परमनाश्लिष्टेषु चाणुषु भूयांसो दोषाः सम्भवन्त्यमी, देशे च धायेमाणे घटस्य कृत्स्नस्य धारणं न स्यात्, उत्क्षेपावक्षेपाकर्षाश्च तथैव न भवेयुः, तस्मादङ्गाङ्गिभावरूपेणाणूनां बन्धपरिणामाभ्युपगमात् सकलस्य संहतस्य महतो द्रवस्याकर्षणादीन्येकदेशेऽपि वर्तमानानि सिद्धान्यतोऽन्यथा न स्युः। संयोगमात्रत्वे बालिकापुरुषादिवदिति बहुलोकसिद्धं विघटेत । तच्च महदू द्रव्यं कणभुपरिकल्पितावयवीव नास्ति मौनीन्द्रदर्शने, द्रव्यास्तिकनयाभिप्रायान्मुझेषिकावद् भेदेनाग्रहणात्, अतो नावयवी स्वदेशेभ्योऽन्यो भिन्नोऽञ्जसा प्रत्यक्षेणानुमानेन वा ग्रहीतुं शक्यतेत्यर्थान्तरभूतावयविनो निषेधः, नान्यो देहादिरवयवी स्वावयवकलापादबद्धत्वे सक्रियत्वे च सति विभागेनागृह्यमाणत्वादवयवस्वरूपवत् स्थानासनशयनादिक्रियावान् देहस्तदवयवाश्चादानविहरणादिक्रियया सचेष्टाः। परस्परप्रतिबद्धपुरुषद्वयव्यभिचारनिरासार्थमबद्धग्रहणम् । तथा धर्माधर्माकाशानां नानात्वेऽपि विभागेनागृह्यमाणत्वमस्तीत्यनैकान्तिकारेकाव्युदासाय सक्रियत्व विशेषणम्, तस्मादवयवव्यतिरेकेणासन्परिकल्पितोऽवयवी कन्दलीदलव्यतिरिक्तकदलीदलसारवत् । यदपि लोके तस्य दर्शनं तदपि देशेष्वेव, तदेकदेशदृष्टौ सर्वो दृष्ट इति व्यवहारात्, अत्यन्तव्यतिरेकपक्षे चावयविनः प्रत्यवयववृत्तित्वादयोऽप्युदाहणीया दोषाः, सवेथा चानुपपद्यमानवृत्तित्वात् खपुष्पवत् असन्नवयवी, उपलब्धिकारणसन्निधाने सत्यवयवरूपादिव्यतिरेकेणानुपलभ्यमानरूपादिगुणत्वात् , हस्त्याद्यवयवव्यतिरेकेण सेनावत्, व्यतिरेके घटबदरादयः, पर्यायनयाभिप्रायेण तु नानात्वमवयविनोऽवयवेभ्यः, अवयवगुणेभ्योऽन्योऽवयविगुणो व्यस्तेषु तेष्ववयवेषु तत्प्रमाणवणांकृतिरूपेणादृश्यमानत्वात् ,अनेकरत्नसंघातनिष्पन्नरत्नावलीवत् रत्नेभ्यः,येन तेषु देशेषु व्यस्तेषु न चतुर्हस्तः पटश्चित्रः पटः समचतुरस्रः पट इत्यादिविशेषोपलब्धिः. एवं द्रव्यपर्यायनयकान्ते बहवो दोषाः, स्याद्वादिनस्तु यथापरिणाममर्पणानर्पणविशेषोपनिपातिस्याच्छब्दोपपदप्रतिपिपादयिषितधर्मस्वरूपाभिनिवेशादशेषधर्मकलापोपसङ्ग्रहणात सर्वैकान्तधर्मविनिवृत्त्या सर्वैकान्तवाक्यसमवतारणात् स्यादन्यः स्यादनन्यः स्यादन्यानन्यः स्यादवक्तव्य इत्यादिसप्तभङ्गीप्रतिज्ञानाद् दोषाणामनवकाश एव, यस्मादर्पितानर्पितनयद्वयविवक्षाऽविवक्षाभ्यामन्यत्वानन्यत्वे भाज्ये, पर्यायनयोऽर्पितस्तन्मतेन त्ववयवावयविनोर्भेदः, अनर्पितो द्रव्या
१ 'मानत्वावृत्तित्वात् ' इति क-पाठः। २' हस्ताद्यवयव ' इति क-ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org