________________
३७० तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ स्तिकः तदभिप्रायादैक्यम्, एवं विश्वपरिणामप्रपञ्चस्थितिभाञ्जि द्रव्याणि स्वात्मन्यविद्यमानै रेव पर्यायतः कश्चिद् धर्मैरुत्पद्यन्ते कैश्चिद् विद्यमानैरपि धर्मेंविनश्यन्ति, कैश्चित्पुनरन्वयिभिः पर्यायनित्यानि ध्रुवाण्येव सर्वद्रव्याणीति मौनीन्द्रदर्शनमनवद्यम् ॥
सम्प्रति प्रस्तुतमनुश्रियते । द्विप्रदेशस्य स्कन्धस्य परमाण्वन्तरेण योगे त्रिप्रदेशस्कन्धोत्पादः, चशब्दात् त्रयाणां च परमाणूनां सङ्घातपरिणामे व्यणुकस्कन्धस्योपजननम्। एवमित्यादिनाऽतिदेशं करोति ॥ शीर्षप्रहेलिकास्थानपर्यन्तवर्ति द्विसङ्ख्योपक्रमं गणितम्, तत्राप्युक्तेन न्यायेन भावना कार्या, ततः परं गणितविषयातिक्रमादसङ्ख्येयो राशिः, तत्रापि संघातपरिणामभावना तुल्यैव, ततोऽप्यसङ्ख्येयादुपरि बहुबहुतरबहुतमपरमाणुप्रचयोऽनन्तकराशिः, तस्मिन्नपि संहतिपरिणतिभावना सदृश्येव, अनन्तानन्तानां चेत्यनेनानन्तकराशेरनन्तानि स्थानानि भवन्तीति प्रदर्शयति । एवं तावत् संघातात् परस्य प्रदेशाः स्कन्धतयोपजायन्त इति ॥
अधुना द्वितीयं प्रकारं वक्तुकाम आहभा०-एषामेव भेदादू विप्रदेशपर्यन्ताः ॥
टी०-घणुकादिक्रमेणानन्तानन्तपरमाणुकपर्यवसानाः स्कन्धाः संघाताद ये समुत्पभास्तेषां पर्यन्तवर्तिनः स्कन्धादेकोऽणुर्यदा भिन्नः पृथग् भवति तदैकाणुभेदात् तन्न्यूनः स्कन्धः समुत्पद्यते, एवं द्विव्यादिपरमाणुभेदक्रमेणाधोऽधो यावत् द्विप्रदेशस्कन्धोत्पाद इति भावनीयम्।
भा०-ऐत एव च संघातभेदाभ्यामेकसामयिकाभ्यां विप्रदेशादयः स्कन्धा उत्पद्यन्ते । अंन्यसंघातेनान्यतो भेदेनेति ॥२६॥
अत्राह-अथ परमाणुः कथमुत्पद्यते इति ? । अत्रोच्यते
टी०-एत एव चेत्यादिना तृतीयविकल्पभावना, बहुवचननिर्देशात कृतैकशेषो निर्देशः, संघातश्च भेदश्च संघातभेदौ संघातभेदौ च संघातभेदौ च संघातभेदाः, एत एव ह्यनन्तरोक्ता घणुकादयः स्कन्धाः सङ्घातभेदाभ्यामेकसामयिकाभ्यां उद्भवन्ति, अविभागीयः कालः परमनिरुद्धश्च समयः स तत्रैकस्मिन् समये अभिन्नकाले न्यणुकस्कन्धादेकोऽणुर्भिद्यते परः संहन्यते समकमेवेत्यतः सङ्घातभेदाभ्यामुत्पद्यन्ते, समये भवः सामयिकः, एकशब्दः समानार्थाभिधायी, एकशब्दः समानार्थे, तद्यथा-'तेनैकदिक्' (पा० अ० ४, पा० ३, सू० ११२ ) सुदामा पर्वतेनैकदिगित्यण् । सौदामिनीति विद्युदेकदिक समानदिगित्यर्थः । समानः समयो ययोः सङ्घातभेदयोस्ताभ्यामेककालाभ्यामिति यावदिति, पाठान्तरं वा एकसामयिकाभ्यामिति, एवं ब्यणुकादयोऽपि भाव्याः, अन्यस्य परमाणोः सङ्घातेनान्यतः स्कन्धाद् भेदेनेत्येवं स्कन्धात् कारणादुत्पद्यत इति प्रतिपादितम् ॥२६॥
१. एतदेव च ' इति क-ख-योर्भाष्ये टीकायां च पाठः। २ सामायिकाभ्यां ' इति क-ख-पाठः। ३'अन्यस्य संघा.' इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org