SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सूत्र २७] स्वोपज्ञभाष्य-टीकालङ्कृतम् ३७१ एवं स्कन्धानामुत्पत्ती व्याख्यातायामजानानः संशयानो वाऽत्रावसरे परमाणत्पादविषयेण प्रश्नेनोपक्रममाण आह-कथं परमाणुरित्यादि ॥ एवं मन्यते स्कन्धानामविशेषण सङ्घाताद् भेदाद् सङ्घातभेदाचोत्पत्तिरवधृता, तत्र किं परमाणनामप्येवमाहोस्विदन्यथेति । अनोच्यते-उत्पत्तिकारणत्र विध्याविशेषे सति ॥ ___ सूत्रम्-भेदादणुः ॥ ५-२७॥ भा०-भेदादेव परमाणुरुत्पद्यते, न सङ्घातादिति ॥ २७ ॥ टी.-सामर्थ्यादवधारणप्रतीतिमादर्शयति, यदि भेदादणुरित्युक्तेऽपि सङ्घातादेरप्युत्पद्यतेऽणुस्ततः सूत्रारम्भो निष्फलः स्यात्, अतो भेदादेव द्रव्याणुरुत्पद्यते न सङ्घातादिति, इतिशब्दः समुचितौ वर्तते, नापि सङ्घातभेदात्, प्रस्तुते विकल्पत्रये भेदादेवोत्पद्यतेऽणुरिति विकल्पद्वयपरित्यागः फलम् ।। ननु च स्नेहरौक्ष्यविगमात स्थितिक्षया द्रव्यान्तरेण भेदात् स्वभावगत्या च ध्यणुकादिस्कन्धभेदादुपजायमानोऽणुः कार्यमपि, व्यणुकादिस्कन्धेषु सङ्घातपरिणतौ सत्यां नाणोरणुभावेनावस्थानमस्ति, स्थूलद्रव्यत्वेन, शेषपर्यायैश्च विद्यत एव "तद्भावः परिणामः" (अ०५, मू०४१) इति वचनात. तस्य भावः सम्भवतीति कर्तृषष्ठयां पूर्वपरिणामोपमर्देन उत्तरपरिणामभवनम्, तस्मिंश्चोत्तरपरिणामे पूर्वपरिणामस्यासम्भव एव, भावान्तरापत्तिफलत्वात् परिणामस्येत्यतः सूक्ष्मपरिणामाद् बादरपरिणामस्यार्थान्तरत्वात् तत्राणुपरिणामाभाव इति, यथा गुडोदकधातकीद्रव्यसंयोगविशेषात सरकद्रव्यपरिणामः सम्भवति, तदेव हि तत्तद्रव्यत्रयसंयोगविशेषात् कालान्तरापेक्षं भावान्तरमन्यदेव प्रतिपत्तव्यं यत्र तेषां विवेको दुःशकः कर्तुम्, अथ च तानि द्रव्याण्यन्तरेण स परिणामो नास्ति, न च तदानीं तानि प्राक्तनरूपेण सन्ति, यदि च स्युस्ततस्तत्परिणामासम्भव एव पूर्वकाल इव । प्रयोगश्च-बादरपरिणामपरिणतमहाद्रव्ये परमाणवः स्वेन रूपेण न सन्ति, परिणामान्तरापन्नत्वात्, यथा सीधुपरिणतौ गुडादय इति, ततश्च कारणमेव तदन्त्यं धणुकादीनामिति अवधारणविरोधः, न विरोधः यतः सर्वमेव मूर्तद्रव्यं स्थूलं विदार्यमाणमशक्यभेदपरमाणुपर्यवसानं जायते, न पुनरत्यन्ताभावरूपं निरुपाख्यमिति, द्रव्यनयापेक्षया वा कारणमेवेत्यवधारणं सर्वेषां घणुकादिद्रव्याणां तदेव कारणमिति, पर्यायनयाभिप्रायेण तूत्पद्यत इति उक्तमुपजायमानत्वाच्च कार्य भवत्येवेत्य- .. विरोधः । स चाणुः स्वतो द्रव्यावयवद्वारेणाभेद्यः, रूपादिभिस्तु स्याद् भेदवान्, न चासावप्रदेशत्वाद् गगनकुसुमादिवदसनित्याशङ्कनीयः, सावयवद्रव्याभावात्, सावयवप्रतिपक्षेग चावश्यमनवयवेनःसता वस्तुनैव भवितव्यम्, स चादिमप्रदेशोऽणुरिति युक्त्याऽऽगमेन च द्रव्यपरमाणुप्रसिद्धिः तत्सिद्धौ च क्षेत्रकालभावपरमाणुसिद्धिरवश्यंभाविनीति विस्तरो द्रष्टव्य इति ॥ १. स्कन्धसङ्घात ' इति क-ख-पाठः। २ 'दुःशक्यः' इति क-ख-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy