SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३६२ तस्वार्थाधिगमसूत्रम् [ अध्यायः ५ धश्चतुर्भिः प्रक्षिप्तैत्रिंशत्प्रदेशमिदम्, विषमप्रतरवृत्तं तु जघन्येन पश्चप्रदेशमिदम्, एतदेव मध्यगेहे प्रदेशद्वयक्षेपादुपैर्यधश्च विषमघनवृत्तं सप्तप्रदेशमिति, उत्कर्षणानन्तप्रदेशमसङ्ख्येयप्रदेशावगाढम्, अधुना व्यत्रं द्विधा युग्मायुग्मभेदात्, युग्मं द्विधा प्रतरघनभेदाव, युग्मप्रतरत्र्यस्त्रं जघन्येन षट्प्रदेशमिदम्, उत्कर्षणानन्तप्रदेशम् , युग्मघनत्यत्रं जघन्येन चतुःप्रदेशम् , उत्कर्षेणानन्तप्रदेशम् । अयुग्ममपि द्विधा प्रतरधनभेदात, ओजप्रतरत्र्यसं जघन्येन त्रिप्रदेश, उत्कर्षेणानन्तप्रदेशम्, धनन्यत्रं जघन्येन पञ्चत्रिंशत्प्रदेशम्, अत्रैव चान्त्यान्त्यप्रदेशानुज्झित्वा दश षट् त्रय एकश्च क्षेप्यः, उत्कर्षणानन्तप्रदेशम्, एतदेव प्रदेशचतुरसमपि द्विधा युग्मायुग्मभेदात्, युग्मं द्विधा प्रतरघनभेदात्, युग्मप्रतरचतुरस्रं जघन्येन चतु:प्रदेशम्, उत्कर्षणानन्तप्रदेशम्, एतदेव प्रदेशचतुष्टयक्षेपाद् युग्मघनचतुरस्रं भवत्यष्टप्रदेशम् , उत्कर्षेणानन्तप्रदेशम, ओजचतुरस्रमपि द्विधा प्रतरघनभेदात्, ओजप्रत वृत्तादिसंस्थानानां रचतुरस्रं जघन्येन नवेप्रदेशम् , इदमुत्कर्षेणानन्तप्रदेशम्, एतदेवौजधनतद्भेदपूर्विका व्याख्या चतुरस्रं भवत्युपर्यधश्च नवभिनवभिः प्रक्षिप्तैः सप्तविंशतिप्रदेशम्, उत्क येणानन्तप्रदेशम्, आयतमपि द्विधा युग्मायुग्मभेदात, युग्मं द्विधा श्रेणिप्रतरभेदाद, तत्र युग्मश्रेण्यायतं जघन्येन द्विप्रदेशमें , उत्कर्षेणानन्तप्रदेशम्, युग्मं प्रतरायतं जघन्येन षट्प्रदेशम, उत्कर्षणानन्तप्रदेशम्, एतदेव च युग्मघनायतं भवति यथान्यासमुपरिषट्प्रदेशक्षेपाजघन्येन द्वादशप्रदेशम्, उत्कर्षणानन्तप्रदेशम्, अयुग्मायतमपि द्विधा श्रेणिप्रतरभेदात्, तत्रौजश्रेण्यायतं जघन्येन त्रिप्रदेश, उत्कर्षणानन्तप्रदेशम्, ओजप्रतरायतं जघन्येन पञ्चदशप्रदेशम्, उत्कर्षेणानन्तप्रदेशमिदम्, एतदेवौजघनायतं भवत्युपर्यधश्च पञ्चदशभिः क्षिप्तः जघन्येन पञ्चचत्वारिंशत्प्रदेशम्, उत्कर्षेणानन्तप्रदेशम्, परिमण्डलं द्विधा प्रतरधनभेदात्, तत्र प्रतरपरिमण्डलं जघन्येन विंशतिप्रदेशमिदम्, एतदेव धनपरिमण्डलं भवत्यन्यैविंशतिसंख्यैः प्रदेशैर्निहितैर्जघन्येन चत्वारिंशत्प्रदेशम्, उत्कर्षणानन्तप्रदेशम् ॥ अत्र च भाष्ये दीर्घहस्वग्रहणादीयतमेव परिगृहीतमादिशब्दाच्छेषाणि, उक्तेन प्रकारेण वृत्तादिना निरूपयितुं यन शक्यं तदनित्थं तद्भावोऽनित्थन्त्वं तत्पर्यन्तमनेकधा संस्थानमिति ॥ भा०-भेदः पञ्चविधः-औत्कारिकः चौर्णिकः खण्डः प्रतरः अनुतट इति॥ टी०-भेदः पञ्चविध इत्यादि । एकत्वद्रव्यपरिणतिविश्लेषो भेदः, स च पुद्गलपरि- १०० । २ मध्याणोरुपर्यधश्च एकैकाणुन्यासात् । ३ चतुर्ध्वपि वृत्तभेदेषु समन्वाथ्येतत् । ४ 88० । ५०० अत्र यस्य कस्यचिदुपरि म्यस्योऽन्योऽणुः। ६०० ००००० ७५ booo oo Ooo :001 १० ०० । ११ 888। १२ ००० । १३ 88888 । १४ व्यवहारानुसार्युपदेशात् न कतिपयपरमाणुजन्यसंस्थानोपदेशः, अनित्थं तु संस्थानं दीर्घादिना ब्यपदेष्टुं यभार्ह नाधिकारश्च जीवसंस्थानैरपि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy