________________
सूत्र २४] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३६१ भा०–सौक्षम्यं विविधम्-अन्त्यमापेक्षिकं च । अन्त्यं परमाणुष्वेव, आपे
क्षिकं च व्यणुकादिषु सङ्घातपरिणामापेक्षं भवति । तद्यथासौम्यस्य द्वैविध्यम्
आमलकाद बदरमिति॥
टी-सौक्षम्यं द्विविधमित्यादि । सूक्ष्मता सौक्षम्यं-पुद्गलपरिणामः, तद् द्विधा, अन्ता-विभागाः परमाणवस्तद्भवमन्त्यमन्यत्रासम्भवात् परमाणुष्वे. वेत्युच्यते, अपेक्षा-प्रतीत्यबुद्धिस्तत्प्रयोजनमापेक्षिकम्, न्यणुकस्कन्धस्त्र्यणुकाद्यपेक्षया सूक्ष्मः चतुरणुकादीन प्रतीत्य व्यणुकस्कन्धः सूक्ष्म इत्यादि बहुभेदम्, सङ्घातपरिणामः-स्कन्धपरिणामस्तदपेक्षं भवति । तद्यथेत्यनेन निदर्शनोपन्यासं सूचयति, आमलकं प्रतीत्य बदरं सूक्ष्मम्, आदिशब्दार्थ इतिशब्दः॥ भा०-स्थौल्यमपि विविधम्-अन्त्यमापेक्षिकं च । सङ्घातपरिणामापे
क्षमेव भवति । तत्रान्त्यं सर्वलोकव्यापिनि महास्कन्धे भवस्थौल्यस्य ति। आपेक्षिकं बददिभ्य आमलकादिष्विति ॥ द्वैविध्यम्
टी०-स्थौल्यमपीत्यादि । स्थूलभावः स्थौल्यं-परमाणुप्रचयपरिणामः, तत्रान्त्यमशेषलोकव्यापिन्यचित्तमहास्कन्धे, इह चावयवविकासः स्थौल्यं विवक्षितम्, प्रवचने त्वयं सूक्ष्मपरिणाम एवाधीतः, यदि च वादरः स्थूलपरिणामः स्यात् ततो महामहीध्रवत् समस्तं लोकमुत्सादयेदतः स्थौल्यं विकासितावयवानामचक्षुर्गम्यम्, आपेक्षिकं तु बदरादामलकं स्थूलमामलकाद् दाडिमम्, इह तु विकासे सत्यप्यवयवानां बादरः परिणामः, ततश्चामलकोदिनयनोपलभ्यम् ॥ '
भा०-संस्थानमनेकविधम् । दीर्घहस्वाद्यनित्थन्त्वपर्यन्तम् ॥
टी-संस्थानमित्यादि ।आकृतिः संस्थानं रचना सन्निवेशः, तद् द्विविधमात्मानास्मपरिग्रहात्, तत्रात्मानः पृथिव्यप्तेजोवायुवनस्पतयः द्वित्रिचतुरिन्द्रियाः पञ्चेन्द्रियाश्च, क्रमेणैषां मसूरस्तिबुकसूचीकलापपताकानित्थन्त्वसंस्थानानि, पुद्गलकृतानि शरीराणीतियावत्, विकलेन्द्रियाणां हुण्डकं त्रयाणामपि वपुः, पञ्चेन्द्रियाणां पोढा शरीरसनिवेशो यथासम्भवं नामकर्मोदयनिवृत्तः समचतुरस्र-न्यग्रोधपरिमण्डल-सादि-कुब्ज-वामन-हुण्डलक्षणोऽनया गाथया विभावनीयः
"तुलं वित्थडबहुलं, उस्सेहबहुं च मडहकोहं च ।
हिडिल्लकायमडह, सव्वत्थासंठियं हुडं ॥"-आर्या अथाजीवपरिगृहीतं वृत्त-व्यस्र-चतुरस्रायत-परिमण्डलभेदात् पञ्चधा, तत्र वृत्तं द्विविध युग्मायुग्मभेदात्, युग्ममपि द्विविधं प्रतरधनभेदात्, तत्र प्रतरयुग्ममिदं जघन्येन द्वादशप्रदेशम्, इदमेव च युग्मं घनवृत्तं भवति द्वादशभिरन्यैः प्रक्षिप्तमध्यमेषु च चतुर्यु घरकेधूपर्य
१ अचित्तमहास्कन्धः स्थूलताऽभावात् अपर उत्कृष्टप्रदेशिको ग्राह्यः, यतस्तस्याष्टस्पर्शवत्ता, न त्वचित्तमहास्कन्धस्य । २ प्रचयविशेषेण स्थूलरूपेण धूमादिवत् व्यापकत्वेऽपि नोत्सादनम् । ३. कादि नियतोपलभ्यम् ' इति क-ख-पाठः।
४ तुल्यं विस्तृतबहुलं, उत्सेधबहुलं च मडभकोष्ठं च । अधस्तनकायमडभं, सर्वत्रासंस्थितं हुण्डम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org