SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३६० तार्थाधिगमसूत्रम् [ अध्याय: ५ त्वेकस्य गुणभूतत्वमन्यस्य प्रधानत्वमेवं चेत्, इष्यते एव द्रव्यपर्याययोरन्यतरस्य गुणप्रधानभावः, त्वयाऽप्येकस्मिन् काले द्रव्ये च धर्माधर्माववश्यमभ्युपगन्तव्यौ, अन्यथा प्रतिबन्ध्यप्रतिबन्धकभाव एव न स्यात्, अतो वाङ्मात्रमेव विरोध इति । न च सामान्यादत्यन्तभिन्ना व्यक्तिरिति जैनसिद्धान्तः । एतेन नादवृद्धिः परेति प्रत्युक्तम्, नादो महान् मध्योऽल्पच, न शब्द इति शबरेणोक्तम्, तदसत्, शब्दस्यैव ताथा विध्यात्, तीव्रमन्दमध्यप्रयत्त्रभेदान्महाञ्छब्दोऽल्पो मध्यश्चेति सामानाधिकरण्येन शब्द एव व्यपदिश्यते, न च अन्यमतपूर्वकं शब्दव्यतिरिक्तं श्रोत्रस्य ग्राह्यमस्ति शब्दधर्म एव नाद इति चेत्, स शब्दस्वरूपम् ततोऽन्योऽनन्य इति वाच्यम्, उभयथा च दोष इति । येऽपि प्रधानपरिणाममुशन्ति शब्दं तैरपि सामान्यविशेषवान् मूर्तश्चाभ्युपेयः, अन्यथा तत्कृतव्यवहारो विच्छिद्येत, येऽपि सङ्गिरन्ते श्रोत्रेन्द्रियविषयमुपात्तानुपात्तोभयमहाभूतहेतुकं शब्दम्, तैरपि न विशेषमात्रमुत्खातसामान्यमूलमवलम्बनीयम्, अयोनयो हि विशेषाः खपुष्पसौरभवदनासादितात्मलाभा एव स्युः, एकान्तक्षणिकता च दृष्टान्ताभावादेवातिदुर्लभेति । तस्मादवस्थितमेतत्-पुद्रलद्रव्यमेव प्रतिविशिष्टपरिणामानुगृहीतं शब्द इति । स द्विधा विस्रसाप्रयोगभेदात्, तत्र वस्रसिको जलधरध्वानादिः प्रयोगजो जीवव्यापारनिष्पन्नः षोढा शब्दस्य भेदप्रभेदाः ततादिः, ततो मृदङ्गपटहादिसमुद्भवः, विततो वीणात्रिसरिकादितन्त्रीप्रभवः, कांस्यभाजन काष्ठशला कादिजनितो घनः, वेणुकम्बुवंशविवराद्युद्भवः शुषिरः, क्रकचकाष्ठादिसङ्घर्षप्रसूतः सङ्घर्षः, व्यक्तवाग्भिर्वर्णपदवाक्याकारेण भाष्यत इति भाषा, प्रतिनियत संस्थानान्यक्षराणि वर्णाः, वर्णसमुदायः पदम्, पदसमुदायो वाक्यमर्थविशेषप्रतिपत्तिहेतुः, इतिशब्दः शब्दभेदेयत्तापरिसमाप्तिप्रदर्शनपरः ॥ भा०—बन्धस्त्रिविधः - प्रयोगबन्धो विस्रसाबन्धो मिश्रबन्ध बन्धस्य त्रैविध्यम् इति । स्त्रिग्घरूक्षत्वाद् भवतीति वक्ष्यते ( अ०५, सू० ३२ ) ॥ aro -- बन्धस्त्रिविध इत्यादि । बन्धनं बन्धः - परस्पराश्लेषलक्षणः, प्रयोगो - जीवव्यापारस्तेन घटितो बन्धः प्रायोगिक :- औदारिकादिशरीरजतुकाष्ठादिविषयः, विस्त्रसा-स्वभावः प्रयोगनिरपेक्षो विस्रसाबन्धः, स द्विधा आदिमदनादिमद्भेदात्, तत्रादिमान् विद्युदुल्काजलधरानीन्द्रधनुःप्रभृतिर्विषमगुणविशेषपरिणत परमाणुप्रभवः स्कन्धपरिणामः, अनादिरपि धर्माधर्माकाशविषयः, प्रयोगविस्रसाभ्यां जीवप्रयोगसहचरिताचेतनद्रव्यपरिणतिलक्षणः स्तम्भकुम्भादिर्मिश्रः, अत्र चोभयमपि प्राधान्येन विवक्षितम्, सामान्यलक्षणं च बन्धस्य स्त्रिग्धरूक्षत्वादित्युपरि व्याख्यास्यते, एतच्च बन्धलक्षणंमनादौ वैस्रसिके न सम्भवत्यन्यत्र तु सङ्गच्छते, 'सामान्योक्तो विधिर्विशेषेऽवस्थानं लभत ' इति वचनात् ॥ १ पौगलिकबन्धस्यैव लक्ष्यत्वात् नोपयोगोऽस्य, बन्धसामान्याधिकारे एव विस्रसाबन्धस्यानादितया यामः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy