________________
सूत्र २४] स्वोपज्ञमाप्य-टीकालङ्कृतम्
३५९ तथाविधः परिणामः शब्दव्यपदेशभागित्येकद्रव्यवत्त्वाभावः, ततश्च स्याद द्रव्यं स्याद् गुणः, परिणामस्य परिणामिनोऽर्थान्तरानान्तरत्वेनाभ्युपेतत्वात , एतेनानित्यत्वैकान्तः प्रत्युक्तः, सर्ववस्तूनां द्रव्यपर्यायात्मकत्वात् , एवं ताकाशस्यापि केनचिदाकारेण गुण एवेति चेत् , नामाकाशादिविवक्षावशाददोषोऽयमनेकान्तवादिनः, द्रव्यपरिणाममात्रत्वाच्च कर्मणोऽचाक्षुषप्रत्यक्षताऽप्यसिद्धा, यदि कथञ्चित् क्षणिकत्वम् , सिद्धमाध्यता, सर्वात्मना चेत् , दृष्टान्ताभावः, सत्त्वमपि केनचित् पुद्गलरूपाद्याकारणेत्यतः सत्त्वे लिङ्गाभावादित्यसम्बद्धम् , कारणसामग्र्या चाकारान्तरावस्थानमापद्यत इत्युत्थितासीनशयितपुरुषवदित्यभूतात्मलाभत्वमसिद्धम् , शब्दपर्यायेणाभूत इति चेत् , उक्तमसकन्न वस्तु पर्यायमात्रं, किं तर्हि ? द्रव्यं पर्यायश्चेत्युभयम् , अभिव्यक्तिदूषणान्यप्येकान्तावस्थितवस्तुपक्षेऽवतरीतुमुत्सहन्ते, न तु परिणामा यस्य कथञ्चिदनित्यं कथञ्चिनित्यमिति, दण्डादिताडनोत्थितभेर्यादिपुद्गलाश्च समासादितशब्दरूपादिमन्तः सन्तोऽपि सूक्ष्मत्वात् कारणगुणपूर्वका अपि नोपलक्ष्यन्ते, विध्यातदीपशिखारूपादिवद् गन्धपरमाणुव्यवस्थितरूपादिवद वा, न च सर्वदास पर्यायः शब्दाख्यः प्रादुरस्ति, द्रव्यक्षेत्रकालभावापेक्षत्वात् पित्तादिप्रकोपवत्, मेर्याद्याश्रयाश्च निश्च(स्स)रन्तः स्कन्धाः शब्दपर्यायमजहतो दिगन्तरस्थितैरपि गृह्यन्त इति नाश्चर्यम्, नैव चोपलभ्यते स्वोपनादन्यत्र शब्दपरिणामः, ताग्विधाकारेषु परमाणुष्वेवावतिष्ठते, आध्यात्मिकश्च शब्दः काययोगात्तशब्दवर्गणायोग्यस्कन्धपरिणतिर्वाग्योगः, प्रयोगविक्षिप्तो रूपादिमत्पुद्गलसङात एवेति, बाधस्त्वनेकाकारः सङ्कर्षजादिः । अपि च-शब्दत्वं नित्यमभ्युपयन् कणादः पर्यनुयुज्यते श्रावणत्वानित्यः शब्दत्ववच्छब्दः, कृतकत्वस्यानित्यत्वेन व्याप्तेविरुद्धाव्यभिचारित्वमिति
र चेत्, नित्यानित्यस्वभावसवेपदार्थवादिनस्तन्न बाधायालम् , अनेकानित्यानित्यत्वर्य
का न्तवादिना च न नित्यत्वानित्यत्वयोर्विरोधोऽभ्युपगम्यते, विरोधलक्षविरोधाभावः
- णासम्भवात्, एकस्तावद विरोधोहिनकुलानिजलादीनामेकस्मिन् काले सति संयोगे द्वित्ववदनेकाश्रयत्वाद् वध्यघातकलक्षणः, नह्यसंयुक्तमुदकमनि विध्यापयति, त्रैलोक्येऽप्यन्यभावप्रसङ्गात्, संयोगेन तु क्षणमात्रावस्थितत्वात् पश्चादेकस्याऽवलता द्वितीयस्य बलीयस्त्वम् , न चै नित्यानित्यत्वयोः क्षणमात्रमप्येकस्मिन् वृत्तिरेकान्तवादिनाऽभ्युपेयते, अतो न वध्यघातकलक्षणो विरोधः समस्ति, नाप्यसहावस्थानलक्षणः, तत्र हि शीतोष्णयोः फले वन्तसंयोगविभागयोराम्रफले च श्यामतापीततयो कस्मिन् वस्तुनि एककाला वृत्तिरस्ति, किन्त्वेकस्य प्राग्विद्यमानता द्वितीयस्य चोत्पद्यमानतास्वभाव इत्यसावुत्पद्यमानः पूर्व विरुणद्धि, यथा सहकारफले पीतता श्यामताम्, न चैवमवस्थितं प्रामित्यत्वमनित्यत्वेनोपजायमानेन नाश्यते, तद्धि नित्यमेव न स्यादध्रवत्वादिति, न च प्रतिबध्यप्रतिबन्धकलक्षणो विरोधः स्याद्वादिन प्रति घटते, यत एकस्मिनात्मद्रव्ये युगपद् धर्माधर्मावुभौ सम्भवतः, तत्र
‘लभ्यन्ते ' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org