SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ “तस्वार्थाधिगमसूत्रम् [ अध्याय: ५ " पुङ्गलद्रव्यपरिणामः,तत्परिणामता चास्य मूर्तत्वात्, मूर्तता च द्रव्यान्तरविक्रियापादन सामर्थ्यात् पिप्पलादिवत्, ताड्यमानपटहतलस्थ कलिंचादिप्रकम्पनात्, तथा शङ्खादिशब्दानामतिमात्रप्रवृद्धानां श्रवणबधिरीकरणसामर्थ्यम्, तच्च नाकाशादावमूर्तेऽस्ति तथा प्रतीपयायित्वात् पर्वतप्रतिहतारमवत्, द्वारानुविधायित्वादातपवत्, संहासामर्थ्याद गुरुधूपवत् वायुना प्रेर्यमाणत्वात् तृणपर्णादिवत्, सर्व दिग्ग्राह्यत्वात् प्रदीपवत्, अभिभवनीयत्वात् तारासमूहादिवत्, अभिभावकत्वात् सवितृमण्डलप्रकाशक्त, महता हि शब्देनाल्पोऽभिभूयते शब्द इति प्रतीतम्, तस्मात् पुलपरिणामः शब्दः ॥ ननु चाकाशस्य गुणाः - शब्द संख्यापरिमाणपृथक्त्वसंयोगविभागाः, आकाशस्य गुणः शब्द इति कणभुङ्मतम्, एकद्रव्यवत्वाद्, एकेनाश्रयद्रव्येण द्रव्यवत्वमेकद्रव्यवत्त्वम्, अथवा एकं च तत् द्रव्यं चेत्येकद्रव्यं तदस्याश्रयोऽस्तीत्येकद्रव्य वांस्तद्भाव एकद्रव्यवत्त्वं तस्मादेकद्रव्यवत्त्वान्न द्रव्यम्, न च कर्माचाक्षुषप्रत्यक्षत्वात्, अतः परिशेषाद् गुणः, स च क्षणिकः प्रागूर्ध्व चोचारणात् सच्चे लिङ्गाभावात्, कारणसामग्रयाः प्रागभूतात्मलाभत्वात्, शब्दाभिव्यञ्जकवस्त्वभावात् सति चाभिव्यञ्जके कारणजो विकारो न स्यात्, नहि घटस्य प्रदीपादि दिव्यमणिव्यञ्जकसन्निधाने परिमाणानुविधानं दृष्टम्, तावानेव हि घटको भिशब्दस्य गुणस् व्यञ्जकभेदे सत्यपि, अयं त्वल्पमध्यादिभेद उपलभ्यते, तथा - भेर्यादिवैशेषिकविचारः संयोगान्निष्पत्तेर्वेणुपर्व विभागाच्छब्दाच्च शब्दनिष्पत्तेः वीचिसन्तानवत्, न चायं विशेषगुणः स्पर्शवतां द्रव्याणां भूजलानला निलानामकारणगुणपूर्वत्वात्, यथा शुचौ शङ्ख कारणगुणपूर्व धवलं रूपमालक्ष्यते, विनष्टेऽपि तस्मिन् जलजे तथालक्षणमेव रूपं शकलेषु गृह्यते, न त्वेवं भेर्यादिशब्दाः प्रध्वस्तेषु भेर्यादिषु तदवयवेषुपलभ्यन्ते, शरीरे वा सामश्लोकादिशब्दाः शरीरावयवेषु चोपलक्ष्यन्ते, तस्मान्न कारणगुणपूर्वः शब्दः, तथा यदि स्पर्शवतो गुणः स्यात् शब्दस्ततो यावत् तानि स्पर्शवद् द्रव्याणि तावद् भवेद् रूपादिवत्, न चैवमुपपद्यते, तस्मादयावद्द्रव्य भावित्वान्न पृथिव्यादिगुणः शब्दः, इतश्च न स्पशेवद्द्रव्यगुणः शब्दः, आश्रयादन्यत्रोपलब्धेः अन्यत्र हि शङ्खमुखसंयोगोऽन्यत्र दिगन्तरेऽवस्थितैः श्रोतृभिरुपलभ्यते शब्दः, स्पर्शवगु गास्तु रूपादयोऽन्यत्राश्रयान्न गृह्यन्ते तस्मान्न शब्दः स्पर्शaai गुणः, बाह्येन्द्रियप्रत्यक्षत्वाच्च नात्ममनो दिक्कालानाम्, पारिशेष्यादाकाशगुणः, लिङ्गमाकाशस्यानुपलभ्यमानस्येति । तदेतदघटमानकमेव वैशेषिकैर्वा चालतया स्वमतिविकल्पशिल्परचनामात्रमाविक्रियते गगन महाशिखरवर्णनवत्, मूर्तत्वं हि प्रत्यपादि प्रागस्यास्माभिर्युक्तितः, तत् कथं मूर्तस्य व्योमगुणत्वोपपत्तयः सङ्गस्यन्ते ? नहि रूपादयो व्योमगुगा इति व्याहारः शोभते, पुद्गलानामेव हि ३५४ शब्दस्य पुगलवे हेतवः शब्दस्य गुणत्वनिरासः १ 'कलिम्बादी' इति ग-पाठः । ४ 'शिखरवत्' इति क-ख-पाठः । Jain Education International २ द्रव्यवत् इति क-ख- पाठः । For Private & Personal Use Only ३ 'कारणतो' इति ग-पाठः । www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy