________________
सूत्रं २४ ] स्वोपनमाष्य-टीकालङ्कृतम्
३५७ धायकः प्रत्यर्थनियतसङ्गतवर्णादिविभागवान् ध्वनिरेव शब्दः, न स्फोटः, अनादिवृद्धपरम्परासङ्केतप्रसिद्धिवशात् प्रत्यर्थनियतत्वम्, परस्परापेक्षातः स्वाभिधेयैकार्थकारितया शिविको. द्वाहकवत् सङ्गतत्वम्, वर्णपदवाक्यानि विभागः, तद्वान् ध्वनिरेव च शब्दः-श्रोत्रग्रहणः, न
___ स्फोटः शालातुरीयमतानुसारिवैयाकरणनिकायपरिकल्पितः, तेषां हि शब्दस्य ध्वनिरुचरितः स्फोटं किलाभिव्यनक्ति, तस्मादभिव्यक्तादर्थप्रतीतिरिति, स्फोटाद् भिन्नत्वम् असम्बन्धमेतत, अनित्यत्वापत्तेः, स्फोटस्य अभिव्यज्यमानत्वान्मूलकी
लोदकादिवत, अर्थप्रतीतिहेतुत्वात, प्रदीपादिवत, प्रदीपादिनित्यत्वे वा दृष्टान्ताभावः, न च स्फोटमभिव्यञ्जन्ति ध्वनयः, अचाक्षुषप्रत्यक्षत्वात् गन्धवदित्यतो ध्वनिरूपः शब्दः स्मृतेः कारणम्, सर्वस्य शब्दस्य प्राग्व्युत्पन्नसङ्केतवशादर्थप्रत्यायनम्, ततश्च पूर्वोपलब्धार्थानुस्मरणात् स्मात शब्दविज्ञानम्, न चान्यापोहमानं शब्दार्थः, विधिनिरपेक्षस्य व्यतिरेकस्यात्राप्रसिद्धरन्वयस्य च व्यतिरेकशून्यस्यानुपलब्धेः, परस्परापेक्षाभ्यामन्वयव्यतिरेकाभ्यां सर्वत्रार्थाधिगतेः व्यतिरेकस्यैव प्राधान्यमित्ययुक्तम्, तथाचाह दत्तकभिक्षुरेव-"अर्थान्तरापोहं हि स्वार्थे कुर्वती श्रुतिरभिधत्त इच्युच्यते" । हिशब्दो यस्मादर्थे । यथा वृक्षशब्दोऽवृक्षशब्दनिवृत्तिं स्वार्थे कुर्वन् स्वार्थ वृक्षलक्षणं प्रत्याययतीत्युच्यते, एवं च निवृत्तिविशिष्टं वस्तु शब्दार्थः, न निवृत्तिमात्रम्, अलक्षणीयमेव च स्यानिवृत्तिमात्रमवस्तुत्वात् खरविषाणकुण्ठतीक्ष्णतादिवर्णनोवत्, अत्र च न प्राग् विधिना घटं गृहीत्वा पश्चादन्यापोहं करोति, नाप्यन्यापोहं कृत्वा पश्चाद् घटं कालभेदेन गृह्णाति, क्रमेण हि ग्रहणे हसिष्ठत्वात् क्षणिकत्वाच सर्वभावानां ध्वनेानस्य च न युक्तं व्यापारद्वयानुष्ठानम्, सन्तानाचेत् तदयुकमवस्तुत्वात्, एवं तर्हि घटग्रहणमन्यापोहश्च युगपदुभयं सिद्धम्, यथा सवितुरुदये सन्तमसविदलनं स्वरूपप्रकाशनं च स्वभावात्, एवं सत्युभयमभिधेयं सामान्यं विशेषश्चेत्यवशेनापि प्रतिपत्तव्यमन्यापोहशब्दार्थवादिना, अन्वयव्यतिरेकयोस्तुल्यकक्षत्वाद् विधेयमपि प्रधानमेवास्तु, नहि द्वयोरथयोधेवखदिरवद् युगपदुपात्तयोरेकस्य गुणभावकल्पना श्रेयसी ॥ ननु चान्वयस्य प्राधान्येऽभ्युपेयमाने प्रयत्नानन्तरीयकत्वमव्याप्तसपक्षं सन्नैवानित्यत्वं गमयेत्, केन वेदमुक्तं-च्यातसपक्षं गमयति अव्याप्तसपक्षं न गमयतीति, एतावत् तु उच्यते-अन्वयनिरपेक्षो न गमयति व्यतिरेकः, नापि व्यतिरेकनिरपेक्षोऽन्वयः प्रतिपादकोऽर्थस्य, परस्परापेक्षतायां च शिबिकोद्वाहकादिवत् सर्वत्र प्राधान्यं, कचिद् विवक्षावशात् वाऽन्यतरस्य गुणप्रधानकल्पनेति । यथाऽऽह-बादशशतिकायाम् “यदप्युक्तमप्रसक्तस्य किमर्थं प्रतिषेध इति, नैवैतत्, प्रतिषेधमात्रमुच्यते, किन्तु तस्य वस्तुनः कश्चिद् भोगार्थान्तरनिवृत्त्या लोके गम्यते यथा विषाणिस्वादनश्व इति, न चाोंक्षिप्तो विशेषः, साक्षादमिधीयमानत्वात्", यथैव सामान्यमुच्यते तथा विशेषोऽपीत्युभयमत्र मुख्यं वाच्यमित्यतः सामान्यविशेषात्मकमेवाभिधेयम् । शब्दश्च
१ 'वृक्षशब्दः' क-स्त्र-यो स्ति। २ वर्णनवत्' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org