SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३५६ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ . भा०-तत्र स्पर्शोऽष्टविधः-कठिनो मृदुर्गुरुलघुः शीत उष्णः नाकास्निग्धो रूक्ष इति । रसः पञ्चविधः-तिक्तः कटुः कषायोऽम्लो मधुर इति । गन्धो विविधः-सुरभिरसुरभिश्च । वर्णः पञ्चविधः-कृष्णो नीलो लोहितः पीतः शुक्ल इति ॥ २३ ॥ किश्चान्यत् . टी.-तत्रेत्यादि । स्पर्शादीनामनन्तपर्यायत्वेऽपि मौलभेदप्रसिद्धयर्थदीनां लक्षणानि । प्रमुखपशी मिदं प्रक्रियते, कठिनादयो विद्वदङ्गनाबालादिप्रतीतास्तथापि सुप्रयुक्तका रिभिरमूनि लक्षणानि प्रत्येकं प्रकाश्यन्ते, अनमनात्मकः कठिनः, सोन्नतिलक्षणो मृदुः, अधोगमनहेतुर्गुरुः, प्रायस्तियेगूर्ध्वगमनहेतुलघुः, वैशद्यकृत् स्तम्भनस्वभावः शीतः, मार्दवपाककृदुष्णः, संयोगे सति संयोगिनां बन्धकारणं स्निग्धः, तथैवाबन्धकारणं च रूक्षः, इतिशब्दः परिस्थूरस्पर्शभेदेयत्ताप्रतिपादनार्थः । अत्र च स्निग्धरूक्षशीतोष्णाश्चत्वार एवाणुषु सम्भवन्ति, स्कन्धेष्वष्टावपि यथासम्भवमभिधानीयाः । श्लेष्मशमनकृत तिक्तः, श्लेष्मभेदपाटवकृत् कटुः, अन्नरुचिस्तम्भनकर्मा कषायः, आश्रवणक्लेदनकृदम्ला, लादनबृंहणकृन्मधुरः, लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे । सुरभिश्चन्दनोशीरकश्मीरजादीनाम्, असुरभिलेसुनविष्ठादीनाम्, सौमुख्यवैमुख्यकारित्वात् साधारण इत्येके, तन्न, उभयोरन्तीतविषयत्वात् । कृष्णादयो वर्णाः क्रमेणाञ्जनशुकपत्ररुधिरकाञ्चनशङ्खादिषु विभावनीयाः, संसर्गजाः सारङ्गादयः । एवमेतद् द्रव्यमेव स्पर्शादिभेदेन भिद्यते त्वगादीन्द्रियप्राप्तमनेकशक्तियुक्तत्वाद् द्रव्यनयाभिप्रायः, पर्यायस्य तु स्पशादय एव, न द्रव्यं, तदग्रहे तबुद्धयभावादिति ॥ २३ ॥ किश्चान्यदित्यनेन सम्बन्धयति । असकलरूपद्रव्यधर्मनिर्देशादनेनेदमुच्यते-किश्चान्यदिति । पुद्गलानां न केवलं स्पर्शादयो धर्माः, शब्दादयश्चेति दर्शयतिपुद्गलानां सूत्रम्-शब्द-बन्ध-सौम्य-स्थौल्य-संस्थान-भेद-तमश्छायाशब्दादिधर्माः तपोद्योतवन्तश्च ॥ ५-२४ ॥ टी-शब्दादयः कृतद्वन्द्वा मतुपा निर्दिश्यन्ते पुद्गलपरिणामप्रदर्शनाय । चशब्दः पुद्गलानुकर्षणार्थः॥ भा०-तत्र शब्दः षड्विधः ततो विततो धनः शुषिरः संघर्षों भाषा इति॥ टी-तत्र शब्द इत्यादि भाष्यम् । तत्रेति तेषु शब्दादिषु पुद्गलपरिणामेषु शब्दस्तावदेवंवरूपः, विवक्षावशादन्वयव्यतिरेकाभ्यां प्रधानगुणभावतया सामान्यविशेषवतोऽर्थस्याभि १ 'सुरभिश्चासुरभिश्च' इति क-ख-पाठः। २'०रो घर्षो भाष इति ' इति घ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy