Book Title: Tattvarthadhigamsutram Part 1
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 427
________________ ३८. तवार्थाधिगमसूत्रम् [ अध्यायः ५ येते, तस्मादस्ति द्रव्यं तद्भावाव्ययलक्षणं स्थित्यात्मकमन्वयिरूपत्वात् स्वभेदानां प्राक् तदान्वयिन्योश्च(१) मृदन्वयाविच्छेदादेकम्, न पुना रूपादिपमुदायमात्रम्, अतः सर्वैकान्तध्वंसविधायिनि स्याद्वादे दूग्मपास्तमसद्विकल्पचतुष्टयम् , किं तत् , एवं समूहिनः परिणामिनो वा तत्कार्यमुत नैव तत्कार्यमथ कार्यमेवास्ति न कारणं कारणमेव वा विद्यते न कार्यमिति, एष च _ _ सामूहिकः समस्तोऽपि रत्नावलीपटस्तम्भकुम्भसेनावनयथादिरर्थः स्वसकार्यकारणानेकान्तत्वम मये पारिणामिक एव, भिन्नाभिन्नदेशानां परिणामिना परिणामाभ्यु • पगमात् , तथापि भेदेनोपन्यासो लोकव्यवहारानुवृत्त्या, पूर्वधर्मोपमनोत्तरधर्मोत्पादः परिणामो लोके क्षीरदध्यादिवत् समूहिषु पारिणामिषु चानैकान्तव्या. प्तिप्रपञ्चप्रदर्शनार्थः । तथाहि-आलोक विशिष्टरूपग्रहणमपि नात्यन्तभेदप्रतिपत्तये, विशेषणविशेष्यभावश्चैकान्तभेदविषयो न कश्चित् प्रसिद्धः, दण्डयादावपि सामान्यविशेषभावे सति विशेषणविशेष्यभावात् । यच्चोक्तमवधारणं रूपादिग्रहे सत्येव भावात्, तदप्युभयस्वभाववस्त्वभ्युपगमे न कञ्चनापक्षा( ? )लमावहति । यदप्यारेको प्रमाणानुभवमन्तरेण स्मृतिरनुपपन्नेति पश्चात् परिजिहीर्षताऽभ्यधायि विकल्पितेऽपि ह्यर्थे स्मृतिदृष्टेति, तदप्यसत्, अर्थाभिधानप्रत्ययानां वस्तुत्वाभ्युपगमादत्यन्ताभावस्य च निरुपाख्यस्य प्रतिषिद्धत्वात, सर्वप्रकारमसतः संन्यवहारायोग्यत्वात्, बभूवुरनादौ संसारे बन्धुमत्यादयः प्राणिविशेषास्तदभिधानानि तदालम्बनाश्च प्रत्ययाः, ततश्च प्रमाणानुभवपूर्विकैव स्मृतिः सर्वत्र नान्यथा, समुदायस्य च प्रतिपादितवग्तुत्वान्न निर्मूल विकल्पत्वम्, बुद्धिभेदाचान्यत्वमेकान्तत एवेति पूर्वमेव प्रत्यस्तम् । नहि बुद्धिभिदा सर्वप्रकाराऽस्ति जनेन्द्राणां.द्रव्यास्तिकनयाभिप्रायेण ग्रहणात्, सद्रव्यतया भेदाभावात्. पर्यायतः सयापरिमाणाकारभेदसद्भावात् भिन्नाभिन्नखभावैव शेमुषी, सा च भेदाभेदखभाव एव वस्तुनि व्यापारमासादयन्ती स्वात्मप्रतिष्ठा प्रतिलभत इति न किञ्चिदनिष्टम् । यच्चोक्तम्-"तुलानतिविशेषाग्रहणादनन्योऽवयव्यवयवेभ्य" इति, तदिष्टमेव, अन्यत्वस्य सर्वथा निषिध्यमानत्वात्, यतो विनाऽप्यवयविना संयोगमात्रे तदर्थान्तरभूतसङ्घातपरिणामाद् दशपलपरिमाणत्वमस्त्येवेति अतो नावयविकृतं पलदशकस्य दशपलपरिमाणत्वं, विनापि तेनोपलभ्यमानत्वादेकादशपलेनेव, इतश्चावयवव्यतिरेकेणासन्नवयवी, अनभिभूतगु . णत्वे सत्यायवरूपादिव्यतिरेकेणानुपलभ्यमानरूपादिगुणत्वात्, तुरगअवयविनोऽनन्यत्वम् वारणाद्यवयवव्यतिरेकेण सेनावत् । यदि च स्याद् रूपादयोऽपि च गुणा - गृह्येरन्नवयविनः पृथक्त्वेन, घटबदरादिवदिति व्यतिरेकः, विशेषणोपादानाद् विद्यमानेवभिनवादनुपरुभ्यमानगुगत्वं तारकादिषु दृष्टमित्यनै कान्ति कत्वव्यावृत्तिः, द्रव्यात्मना च तन्तुपरिणतो परपरिणामोऽस्त्येव, सुचिरादपि तत्र भावात्, पर्यायात्मना चाभावाद्, अतीतानागतपरिणामानामसवाइव्यवहार्यत्वाद् वतेमानपयोय एव परमार्थतोऽस्त्युपयु - १' निरूपाख्य' इति क-पाठः । २'ग्रहणान्नान्या' इति क-ख-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546