________________
३८. तवार्थाधिगमसूत्रम्
[ अध्यायः ५ येते, तस्मादस्ति द्रव्यं तद्भावाव्ययलक्षणं स्थित्यात्मकमन्वयिरूपत्वात् स्वभेदानां प्राक् तदान्वयिन्योश्च(१) मृदन्वयाविच्छेदादेकम्, न पुना रूपादिपमुदायमात्रम्, अतः सर्वैकान्तध्वंसविधायिनि स्याद्वादे दूग्मपास्तमसद्विकल्पचतुष्टयम् , किं तत् , एवं समूहिनः परिणामिनो वा तत्कार्यमुत नैव तत्कार्यमथ कार्यमेवास्ति न कारणं कारणमेव वा विद्यते न कार्यमिति, एष च
_ _ सामूहिकः समस्तोऽपि रत्नावलीपटस्तम्भकुम्भसेनावनयथादिरर्थः स्वसकार्यकारणानेकान्तत्वम
मये पारिणामिक एव, भिन्नाभिन्नदेशानां परिणामिना परिणामाभ्यु
• पगमात् , तथापि भेदेनोपन्यासो लोकव्यवहारानुवृत्त्या, पूर्वधर्मोपमनोत्तरधर्मोत्पादः परिणामो लोके क्षीरदध्यादिवत् समूहिषु पारिणामिषु चानैकान्तव्या. प्तिप्रपञ्चप्रदर्शनार्थः । तथाहि-आलोक विशिष्टरूपग्रहणमपि नात्यन्तभेदप्रतिपत्तये, विशेषणविशेष्यभावश्चैकान्तभेदविषयो न कश्चित् प्रसिद्धः, दण्डयादावपि सामान्यविशेषभावे सति विशेषणविशेष्यभावात् । यच्चोक्तमवधारणं रूपादिग्रहे सत्येव भावात्, तदप्युभयस्वभाववस्त्वभ्युपगमे न कञ्चनापक्षा( ? )लमावहति । यदप्यारेको प्रमाणानुभवमन्तरेण स्मृतिरनुपपन्नेति पश्चात् परिजिहीर्षताऽभ्यधायि विकल्पितेऽपि ह्यर्थे स्मृतिदृष्टेति, तदप्यसत्, अर्थाभिधानप्रत्ययानां वस्तुत्वाभ्युपगमादत्यन्ताभावस्य च निरुपाख्यस्य प्रतिषिद्धत्वात, सर्वप्रकारमसतः संन्यवहारायोग्यत्वात्, बभूवुरनादौ संसारे बन्धुमत्यादयः प्राणिविशेषास्तदभिधानानि तदालम्बनाश्च प्रत्ययाः, ततश्च प्रमाणानुभवपूर्विकैव स्मृतिः सर्वत्र नान्यथा, समुदायस्य च प्रतिपादितवग्तुत्वान्न निर्मूल विकल्पत्वम्, बुद्धिभेदाचान्यत्वमेकान्तत एवेति पूर्वमेव प्रत्यस्तम् । नहि बुद्धिभिदा सर्वप्रकाराऽस्ति जनेन्द्राणां.द्रव्यास्तिकनयाभिप्रायेण ग्रहणात्, सद्रव्यतया भेदाभावात्. पर्यायतः सयापरिमाणाकारभेदसद्भावात् भिन्नाभिन्नखभावैव शेमुषी, सा च भेदाभेदखभाव एव वस्तुनि व्यापारमासादयन्ती स्वात्मप्रतिष्ठा प्रतिलभत इति न किञ्चिदनिष्टम् । यच्चोक्तम्-"तुलानतिविशेषाग्रहणादनन्योऽवयव्यवयवेभ्य" इति, तदिष्टमेव, अन्यत्वस्य सर्वथा निषिध्यमानत्वात्, यतो विनाऽप्यवयविना संयोगमात्रे तदर्थान्तरभूतसङ्घातपरिणामाद् दशपलपरिमाणत्वमस्त्येवेति अतो नावयविकृतं पलदशकस्य दशपलपरिमाणत्वं, विनापि तेनोपलभ्यमानत्वादेकादशपलेनेव, इतश्चावयवव्यतिरेकेणासन्नवयवी, अनभिभूतगु
. णत्वे सत्यायवरूपादिव्यतिरेकेणानुपलभ्यमानरूपादिगुणत्वात्, तुरगअवयविनोऽनन्यत्वम्
वारणाद्यवयवव्यतिरेकेण सेनावत् । यदि च स्याद् रूपादयोऽपि च गुणा
- गृह्येरन्नवयविनः पृथक्त्वेन, घटबदरादिवदिति व्यतिरेकः, विशेषणोपादानाद् विद्यमानेवभिनवादनुपरुभ्यमानगुगत्वं तारकादिषु दृष्टमित्यनै कान्ति कत्वव्यावृत्तिः, द्रव्यात्मना च तन्तुपरिणतो परपरिणामोऽस्त्येव, सुचिरादपि तत्र भावात्, पर्यायात्मना चाभावाद्, अतीतानागतपरिणामानामसवाइव्यवहार्यत्वाद् वतेमानपयोय एव परमार्थतोऽस्त्युपयु
- १' निरूपाख्य' इति क-पाठः । २'ग्रहणान्नान्या' इति क-ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org