Book Title: Tattvarthadhigamsutram Part 1
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 439
________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ तेन सदात्मना स्थित्यंशेनाविगतं परिणामापत्तौ सत्यामपि स्वभावाप्रच्युतेनित्यमुच्यते । तमेव च ध्रौव्यांशमाश्रित्य समस्तास्तिकायेषु नित्यताव्यवहारःप्रतीयते, अथवा भूतिर्भावः स्वात्मेत्यर्थः। स चासौ भावश्च तद्भावः कश्चासौ ? यः सर्वास्ववस्थासु निर्विकारः, शुद्धा द्रव्यास्तिकनयप्रकृतिरविवक्षितसकलभेदग्रन्थिः, अयो-गमनं विरुद्धोऽयो व्ययस्तद्भावस्य च विरुद्धगमनमभावापत्तिः, न व्ययोऽव्ययः, न जातुचित् तद्भावोऽभावो भवतीति वाक्यार्थः, ध्रौव्याभिसम्बन्धाच्च नपुंसकनिर्देशः, तद्भावश्चासावव्ययं च तद्भावाव्ययम्, किं तत् ? प्रकृतत्वादेवंविधविशेषणसामर्थ्याधौव्यं नित्यशब्देनाभिधीयते, भाष्ये च यद्यपि भाष्यकृता पश्चमी प्रदर्शिता विवक्षावशात् तथापि विवक्षितस्यार्थस्याभिन्नत्वात् तृतीयाषष्ठयोर्न दोषः॥ ननु च प्रागपि नित्यावस्थितान्यरूपाणीत्यत्र (तृतीये) सूत्रे नित्यग्रहणं ध्रौव्यार्थमेव व्याख्यायि भवता, तत् किमर्थमिदमुच्यते 'तद्भावाव्यये नित्यम्' इति ? अत्रोच्यते-इह नित्यस्य लक्षणमभिधित्सितं, लक्षितेन चेह नित्यत्वेन तत्र व्यवहारः प्रदर्शितः। अपरे त्वेवं वर्णयन्ति-द्वे नित्यते, तत्रैका स्वभावाप्रच्युत्या कालत्रयाव्यभिचारिणी नित्यता, अपरा पारम्पये प्रवृत्तिनित्यता, तत्र च प्राच्यां नित्यतामाश्रित्य नित्यावस्थितान्यरूपाणीति पठितम्, परम्परावृत्त्यवच्छेदमधिकृत्योत्पादव्ययध्रौव्यसूत्रमध्य गायीति, एतदपि यत्किश्चित्, यतस्तद्भावाव्ययं नित्यमित्येकमेव नित्यनित्यसूत्रफलम् लक्षणं लक्षणान्तरानभिधानाच कथं द्वे नित्यते ? नित्यप्रहसितादिषु दृष्टेति चेत्, तदयुक्तम्, अभीक्ष्णार्थाभिधायित्वादर्थान्तरवृत्तिस्तत्र नित्यशब्दः, तत्त्वविचारप्रस्तावे च न किञ्चिदुपचारेण प्रयोजनम्, अतो व्यवस्थितमेव लक्षणं तद्भावाव्ययं नित्यमिति ॥ एवमन्वय्यंशो नित्यत्वेन लक्षितो द्रव्यनयस्वभावः । पर्यायनयस्वभावो तूत्पादविनाशावभूतभावभूताभावलक्षणावुक्तन्यायेन स्थित्यंशप्रतिबद्धौ । स्थितिरपि पर्यायप्रतिबद्धा, सर्वदा संसर्गरूपत्वाद् वस्तुनः, एवमेकाधिकरणावुत्पादविनाशौ जैन एव शासने साङ्गत्यमनुभवतोऽन्यत्र तु व्यधिकरणावेवोत्पादविनाशौ नियतौ वेति ॥ नन्वेवमपि यथा तद् द्रव्यमात्मापरित्यागात् तथोत्पादविनाशलक्षणः पर्यायोऽपि द्रव्यपर्यायाभ्यां आत्मभूतो द्रव्यस्येत्यतः पर्यायनिवृत्तिवद् द्रव्यनिवृत्तिप्रसङ्ग इति । नित्यानित्यत्वे अत्रोच्यते-स्यादेतदेवं, यदि घटादिनिवृत्तौ मृन्निवृत्तिदृश्येत, मृग्नि __ वृत्तौ वा पुद्गलनिवृत्तिः, न च दृश्यते मृदोऽन्वयिन्याः पुद्गलजाते कस्यांचिदवस्थायां निवृत्तिस्तदभिधानप्रत्ययव्यवहार्यत्वात्, घटादिनिवृत्तौ वा यदि न किश्चित् पश्चादुपलभ्येत श्रद्दधीत विद्वज्जनः पर्यायनिवृत्तौ द्रव्यांशनिवृत्तिः, न च प्रत्यक्षविरोधे तर्कः क्रमत इत्यपकर्ण्यमेतत्, एवमुपपत्त्यागमाभ्यामवस्थितं तद्भावाव्ययं नित्यमिति ॥ ३० ॥ एवं सूत्रद्वयेन निरूपिते समस्ते वस्तुन्यर्थाभिधानप्रत्ययरूपे स्थित्युत्पत्तिव्ययस्वभावे पुनर्विस्तरविशेषार्थी पर आरेकते, यद् व्येत्युत्पद्यते च तत् सन्नित्यं चेत्यतिसाहसम्, अथवा न किश्चिदसदनित्यं वा, समित्यत्वाभ्यां निराकृतत्वात्, ततो लोकव्यवहारोच्छेदः, तदेतद् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546