________________
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ तेन सदात्मना स्थित्यंशेनाविगतं परिणामापत्तौ सत्यामपि स्वभावाप्रच्युतेनित्यमुच्यते । तमेव च ध्रौव्यांशमाश्रित्य समस्तास्तिकायेषु नित्यताव्यवहारःप्रतीयते, अथवा भूतिर्भावः स्वात्मेत्यर्थः। स चासौ भावश्च तद्भावः कश्चासौ ? यः सर्वास्ववस्थासु निर्विकारः, शुद्धा द्रव्यास्तिकनयप्रकृतिरविवक्षितसकलभेदग्रन्थिः, अयो-गमनं विरुद्धोऽयो व्ययस्तद्भावस्य च विरुद्धगमनमभावापत्तिः, न व्ययोऽव्ययः, न जातुचित् तद्भावोऽभावो भवतीति वाक्यार्थः, ध्रौव्याभिसम्बन्धाच्च नपुंसकनिर्देशः, तद्भावश्चासावव्ययं च तद्भावाव्ययम्, किं तत् ? प्रकृतत्वादेवंविधविशेषणसामर्थ्याधौव्यं नित्यशब्देनाभिधीयते, भाष्ये च यद्यपि भाष्यकृता पश्चमी प्रदर्शिता विवक्षावशात् तथापि विवक्षितस्यार्थस्याभिन्नत्वात् तृतीयाषष्ठयोर्न दोषः॥ ननु च प्रागपि नित्यावस्थितान्यरूपाणीत्यत्र (तृतीये) सूत्रे नित्यग्रहणं ध्रौव्यार्थमेव व्याख्यायि भवता, तत् किमर्थमिदमुच्यते 'तद्भावाव्यये नित्यम्' इति ? अत्रोच्यते-इह नित्यस्य लक्षणमभिधित्सितं, लक्षितेन चेह नित्यत्वेन तत्र व्यवहारः प्रदर्शितः। अपरे त्वेवं वर्णयन्ति-द्वे नित्यते, तत्रैका स्वभावाप्रच्युत्या कालत्रयाव्यभिचारिणी नित्यता, अपरा पारम्पये प्रवृत्तिनित्यता, तत्र च प्राच्यां नित्यतामाश्रित्य नित्यावस्थितान्यरूपाणीति पठितम्, परम्परावृत्त्यवच्छेदमधिकृत्योत्पादव्ययध्रौव्यसूत्रमध्य
गायीति, एतदपि यत्किश्चित्, यतस्तद्भावाव्ययं नित्यमित्येकमेव नित्यनित्यसूत्रफलम् लक्षणं लक्षणान्तरानभिधानाच कथं द्वे नित्यते ? नित्यप्रहसितादिषु
दृष्टेति चेत्, तदयुक्तम्, अभीक्ष्णार्थाभिधायित्वादर्थान्तरवृत्तिस्तत्र नित्यशब्दः, तत्त्वविचारप्रस्तावे च न किञ्चिदुपचारेण प्रयोजनम्, अतो व्यवस्थितमेव लक्षणं तद्भावाव्ययं नित्यमिति ॥ एवमन्वय्यंशो नित्यत्वेन लक्षितो द्रव्यनयस्वभावः । पर्यायनयस्वभावो तूत्पादविनाशावभूतभावभूताभावलक्षणावुक्तन्यायेन स्थित्यंशप्रतिबद्धौ । स्थितिरपि पर्यायप्रतिबद्धा, सर्वदा संसर्गरूपत्वाद् वस्तुनः, एवमेकाधिकरणावुत्पादविनाशौ जैन एव शासने साङ्गत्यमनुभवतोऽन्यत्र तु व्यधिकरणावेवोत्पादविनाशौ नियतौ वेति ॥ नन्वेवमपि
यथा तद् द्रव्यमात्मापरित्यागात् तथोत्पादविनाशलक्षणः पर्यायोऽपि द्रव्यपर्यायाभ्यां आत्मभूतो द्रव्यस्येत्यतः पर्यायनिवृत्तिवद् द्रव्यनिवृत्तिप्रसङ्ग इति । नित्यानित्यत्वे अत्रोच्यते-स्यादेतदेवं, यदि घटादिनिवृत्तौ मृन्निवृत्तिदृश्येत, मृग्नि
__ वृत्तौ वा पुद्गलनिवृत्तिः, न च दृश्यते मृदोऽन्वयिन्याः पुद्गलजाते कस्यांचिदवस्थायां निवृत्तिस्तदभिधानप्रत्ययव्यवहार्यत्वात्, घटादिनिवृत्तौ वा यदि न किश्चित् पश्चादुपलभ्येत श्रद्दधीत विद्वज्जनः पर्यायनिवृत्तौ द्रव्यांशनिवृत्तिः, न च प्रत्यक्षविरोधे तर्कः क्रमत इत्यपकर्ण्यमेतत्, एवमुपपत्त्यागमाभ्यामवस्थितं तद्भावाव्ययं नित्यमिति ॥ ३० ॥
एवं सूत्रद्वयेन निरूपिते समस्ते वस्तुन्यर्थाभिधानप्रत्ययरूपे स्थित्युत्पत्तिव्ययस्वभावे पुनर्विस्तरविशेषार्थी पर आरेकते, यद् व्येत्युत्पद्यते च तत् सन्नित्यं चेत्यतिसाहसम्, अथवा न किश्चिदसदनित्यं वा, समित्यत्वाभ्यां निराकृतत्वात्, ततो लोकव्यवहारोच्छेदः, तदेतद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org