________________
सूत्र ३०] स्वोपज्ञमाष्य-टीकालङ्कृतम्
३९१ सूत्रम्-तद्भावाव्ययं नित्यम् ॥ ५-३० ॥ - टी०-तदित्यनेनाभिसम्बध्यते सत् , तस्य-सतो भवनं-भावस्तद्भावः, कर्तरि षष्ठी, तदेव हि सत् तथा तथा भवति जीवादि देवादिरूपेण, न जातुचित् सत्त्वत्यागेनान्यथा भवति, तद्भावादव्ययं तद्भावाव्ययम् अविनाशि नित्यं, नित्यग्रहणात् धौव्यांशपरिग्रहः, " नेधुवे त्यप्" (सिद्ध० अ० ६, पा० ३, सू० १७) इति वचनात् , स ह्यन्वयी द्रव्यास्तिकांशः सर्वदा सर्वत्र न विच्छिद्यते, सदाकारेणानुत्पत्तेरविनाशाच, भावशब्दोपादानात् परिणामनित्यता गृह्यते, कूटस्थनित्यता त्यज्यते, अन्यथा 'तदव्ययं नित्यमिति सूत्रं स्यात् । यत् तु न केनचिदाकारेण विक्रियते तदनुपाख्यमेव भवेत् , सत्त्वं च सर्वेषामन्वयिनां धर्माणां सूचकम्, पश्चास्तिकायच्यापित्वात् तु सत्त्वपरिग्रहः, साक्षाज्जीवस्तावत् सत्त्वं चैतन्यममूर्तत्वमसङ्ख्येयप्रदेशत्वं चाजहत् तथातथापरिणामान व्यगात् न व्येति न व्येषत्यविनाश्यव्ययो नित्य उच्यते, न पुनर्देवादिपर्यायेणाप्यनन्वयिना नित्यता ध्रौव्यमस्य विद्यते, तथा परमाणुब्धणुकादिपुद्गलद्रव्यं सत्त्वमूर्तत्वाजीवत्वानुपयोगग्राह्यादिधर्मानपरित्यजद् विवर्तते, न घटादिपर्यायविवक्षया ध्रौव्यम्, धर्मद्रव्यमपि सत्त्वामूर्तत्वासङ्ख्येयप्रदेशवत्त्वलोकव्यापित्वादिधर्मात्यागेनावतिष्ठते, न तु परमाणुदेवदत्तादीनां प्रत्येक गन्तृत्वस्य विवक्षायां गत्युपकारित्वेन नित्य
त्वम्, गन्तुभेदाद्धि गत्युपकारित्वं भिद्यते अन्यादृशाकारेण पूर्वः परिणाद्रव्यस्य नित्यता व मोऽन्यादृशेनाकारेण पाश्चात्यः, नहि प्रथमतरमुत्पन्नो गत्युपकारित्वप
रिणामः सर्वदावतिष्ठते, स्वरूपव्यतिरिक्तवस्तुसम्बन्धितयोपजायमानस्वाद् घटादिवत्, एवमधर्मद्रव्यमपि द्रष्टव्यम्, स्थित्युपकारितया चानित्यत्वभावना, आकाशं तु सत्वामूर्तत्वानन्तप्रदेशवत्वादिधर्मद्वारेण नित्यम् , अवगाहकापेक्षयाऽवगाहदातृत्वेनानित्यम्, यत्राप्यवगाहकं जीवपुद्गलं नास्ति तत्राप्यगुरुलध्वादिपर्यायवत्तयाऽवश्यंतयैवानित्यताऽभ्युपेया, ते त्वन्ये चान्ये च भवन्ति, अन्यथा तत्र न खत उत्पादव्ययो नाप्यापेक्षिकाविति न्यूनमेव सल्लक्षणं स्यात्, इमामेव परिणामनित्यतां भाष्येण दर्शयति. भा०—यत् सतो भावान व्यति न व्येष्यति तन्नित्यमिति ॥ ३०॥ ____टी० यत् सत इत्यादि । सत्त्वादेरन्वयिनोंऽशान्न व्येति न विनश्यति नापि विनङ्क्ष्यति तन्नित्यम्, किं पुनः कारणमप्रवृत्तः कालो नोदाहृतः । एवं मन्यते भाष्यकारः-नातीतप्रत्याख्याने वर्तमानः सम्भवति, वर्तमानावधिकमेवातीतत्वम् अतीतासत्वे निर्मूलस्य वस्तुनोऽनुत्थानप्रसङ्गात्, तसादनादि जीवादि सत्त्वादि, एवं तर्हि भविष्यतो ग्रहणं किमर्थम् ? अत्राप्येवं मन्यते-केचिदविविक्तबुद्धयः प्रत्याख्यापयन्ति न वर्तमानकालावच्छिन्नस्य वस्तुनः कदाचिद् भविष्यकालाभिसम्बन्ध इति, तनिषेधार्थ भविष्यग्रहणम्, अथवा तद्भावेनाव्ययं, ...१'रिकसम्बन्धि' इति क-ख-पाठः । ३ 'पुलाद्यनादि तत्रा.' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org