SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ पृथग्भूतरूपाणामत्यन्तमिमकालानां च नैकत्वं दृष्टम् , यो वाऽद्य जनित्वा प्रियते यश्च वर्षशतं जीवित्वा मरणमनुभवति न तयोस्तुल्यकालता युक्ता, तथा न घटोत्पादकाल एव विनाशकालः, क्रियाफलानाश्वासप्रसङ्गात् , यदि घटरूपनिवृत्त्यनन्तरमेव घटस्य विनाशः ततः क्रियाफले घटे स्यादनाश्वासः, विनष्टेन तेन घटकार्याकरणात् , तस्माद् भिन्नकालावुत्पादविनाशौ । तथार्थान्तरमुत्पादस्थितिभङ्गाः परस्परतः स्वलक्षणभेदात् , आत्मलाभात्मावस्थानात्महानिस्वभावाः खल्वेते, यत्र च स्वलक्षणभेदस्तत्रार्थान्तरता दृष्टा घटपटादिषु, यत्र चानान्तरता न तत्र स्वलक्षणभेदः, यथैकलक्षणवर्तिनि रूप इति । एवं भिन्नाभिन्नकालतोत्पादादीनामर्थान्तरत्वमनर्थान्तरता च स्याद्वादप्रक्रियायां सकलप्रमाणाविरोधिनी सिध्यति, नैकान्तवादेपुत्पादादयः सम्भवन्ति, भेदाभेदादिलक्षणानभ्युपगमात् । तस्मादवस्थितमिदम्उत्पादव्ययधौव्ययुक्तं सदिति ॥ २९ ॥ एवं प्रपञ्चतः संल्लक्षणमुपपायोत्तरसूत्रसम्बन्धाय ग्रन्थमुपचिक्षेप भाष्यकारः भा०-अत्राह-गृह्णीमस्तावदेवलक्षणं सदिति, इदं तु वाच्यं तत् किं नित्यमाहोस्विदनित्यमिति ? । अत्रोच्यते टी-अत्राहेत्यादि । अत्रावसरे परः प्रश्नयति, प्रतिपादितसल्लक्षणानुमोदनाद्वारेण गृहीमस्तावदेवलक्षणं सदित्येवंविधस्य सत्त्वमनुमन्यामहे युक्त्यागमभाजः, तावच्छब्दः प्रक्रमावद्योतनार्थः, पूर्वमेव सत्त्वं निश्चयम् , निश्चिते सत्वे पश्चान्नित्यताऽनित्यता च चिन्त्या, एवं लक्षणमस्येत्युत्पादादित्रययोगमुल्लिङ्गयति । इतिशब्दो हेत्वर्थः । यसात् सत् तस्मात् इदं तु वाच्यं-तत् किं नित्यमाहोस्विदनित्यमिति ? तुशब्दस्तस्मादित्यस्यार्थमभिधत्ते, तदिति सतः परामर्शः, तत् सत् किं नित्यमनित्यमिति, सप्तसु विकल्पेषु सति सम्भवत्सु प्रश्नद्वयोपन्यासः किमर्थ इति चेत्, उच्यते-द्रव्यास्तिकनयपर्यायास्तिकसम्परि . ग्रहार्थः, तत्सम्परिग्रहाच शेषविकल्पसूचनमवसेयम्, कुतः पुनरिय- उत्पादादेनित्या- मारेका प्रष्टुः ? उच्यते सतां नित्यानित्यत्वदर्शनात् , सद् व्योमादि नित्यं दृष्टं सच्च घटादि अनित्यमतः सन्देहः । अथवा आदाविदमुक्तम्-"नित्यावस्थितान्यरूपाणि" (अ० ५, सू० ३) इति तत्रैवं मन्यते-न सर्व सन्नित्यमरूपग्रहणात् रूपवतस्त्वनित्यत्वमर्थादतो न सत् सर्वे नित्यं नाप्यनित्यमितीष्यतेऽवस्थित्यंशाङ्गीकरणेन रूपवदपि नित्यम् । यथाऽऽह भगवान्-" से जहा णामए पंचत्थिकाया सिया" इत्यादि सूत्रम् ॥ अन्यथा तूत्पादव्ययध्रौव्ययुक्तं सदित्यव्यापि सल्लक्षणं स्यात्, अत इदं तु वाच्यम्-तत् किं सर्वथा नित्यमाहोस्वित् स्थित्यंशसमाश्रयणेनैव नित्यमिति ? । आचार्यस्तु स्थित्यंशमभिप्रेत्याह-अत्रोच्यते ॥ १'सल्लक्षण' इति ग-पाठः । २ अथ यथा नाम पश्चास्तिकायाः स्यात् । नित्यत्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy