________________
सूत्र २९ ] स्वोपज्ञमाप्य टीकालङ्कृतम्
३८९ न्तरमेव विनश्यतीति, अयुक्तमिदम् , प्रतिज्ञामात्रत्वात् , वयमपि अमः-स स्वहेतुरेव तादृश उपजायते येन कालान्तरमवस्थाय विनश्यतीति, अत्र च पक्षे प्रत्यक्षाद्यपि प्रमाणं सहायीभवति ॥ ननु च निष्कारणविनाशवादिनामियं युक्तिः-" नष्टा चेनाशविनः कः ? न चेनैव विनझ्यति" इति, प्रतिकृतविधानैषा युक्तिः, "प्रागभूतात्मलाभत्वानाशः कारणवान् भवेत्" इति । स्वभावश्च वस्तुनो धर्मः परिणतिविशेषः, स च कश्चित् सादिवर्णादिपरिणामः, कश्चिदनादिः सत्तामूर्तत्वामूर्तत्वापरिणाम इति, अतोऽनेकान्तेनैव यो यत्स्वभावः स सर्वदा तत्स्वभाव एव कदाचिनश्यति कदाचिदवतिष्ठते कदाचिदुत्पद्यत इत्यलमतिप्रसङ्गेन । स्थिवमिदम्-प्रायोगिकोऽप्यस्ति विनाश इति । ऐतेऽवस्थित्युत्पादविनाशास्त्रयोऽप्येककालाः विभिन्नकालाश्च परस्परतोऽनन्तरमर्थान्तरं च, तत्रोत्पादविनाशयोरेककालतायां सिषाधयिषितायां स्वात्मत्वापृथग्भावः कारणम् , नहि उत्पादविनाशयोः स्वास्मा भिद्यते, यथैकस्मिन्नेकक्षणवर्तिनि रूपे विभागाभावात् स्वात्मलाभकाल एवैकः कालो नान्यः समस्ति, यबैककालं न भवति तदेकमपि नियमेन न भवति, यथा गवाश्वयोजन्मविनाशाविति । एवमुत्पादविनाशयोरेककालता, एवमुत्पादविनाशाभ्यां द्रव्यमभिन्नकालं साध्यम्, तथोत्पादविनाशौ द्रव्यादभिन्नकालौ ताभ्यामेव हेतुदृष्टान्ताभ्यां वाच्यौ ॥ ननु चैकान्तवादी स्वात्मत्वापृथग्भूतत्वमुत्पादविनाशयोन प्रतिजानीते, तत्प्रसाधनाय परिकरः सर्पद्रव्यस्यात्मन्युत्पतनाकारणोत्पादः, तस्यैवात्मनि पतनाकारेण विगमः, सर्पद्रव्यात्मैवोभयाकारः नहि सोत्मा भिद्यते, न चेद् भिद्यते ततः सर्पस्वभावतैव, अत एवानर्थान्तरतापि ग्राह्या, अनर्थान्तरमुत्पादविनाशौ परस्परावधिको, तत्प्रतिपत्तेरभिन्नकालत्वात् , तस्योत्पादस्यारम्भो विशिष्यते अभिन्नकालत्वेन । केन सहाभिन्नकाल इति चेत्, सामर्थ्याद् विनाशेन,यसाद् विनश्यतो हि योऽन्त्यक्षणो यश्चोत्पादस्याद्यक्षणस्तदेतावुत्पादविनाशावेककालावनान्तरं च, यदि चान्यो विनाशकालः स्यात् पूर्वस्यान्यश्चोत्पादकालः स्यादुत्तरस्य, ततः प्रागेतनं विनष्टमुत्तरमनुत्पन्नम्, एवं च वस्तुशून्यः कालो भवेनिर्बीजं चोत्तरमुत्पद्येत, तस्मादभिन्नकालावनन्तरं च ताविति । यथैकक्षणवर्तिनो रूपस्यैकत्वादेव तत्प्रतिपत्त्यभिन्नकालतेत्येतत् प्रतिपादयति । अन्यस्य ह्यन्येन भिन्नकालता सम्भाव्येत, न पुनस्तस्य तेनैवेति वाक्यार्थः । एवमितरत्रापि द्वयेऽनन्तरता भावनीया, हेतुदृष्टान्तौ तु तावेव । नैगमनयाभिप्रायेण तूत्पादविनाशद्रव्याणां भिन्नकालता, उत्पादो हि प्रागभावः, स च द्रव्यधर्मत्वाद् द्रव्यवृत्तिः, प्रध्वंसाभावोऽपि विनाशः सोऽपि द्रव्यधर्म एव, द्रव्यमपि द्रव्यात्मरूपमजहत् स्वात्मनि वर्तते, ततश्चोत्पद्य कश्चित् कालं स्थित्वा प्रध्वंसाभावाद् विनश्यति, एवं भिन्नकालाः प्रत्येकात्मकालवृत्तित्वात् परस्परविभिन्नात्मानोर्थान्तरभूता इतियावत्, पटव्योमादीनां चात्यन्त
१ . सादिपरिणामः' इति क-पाठः । २ 'एतेन च ' इति क-ख पाठः। ३ 'स्वत्मतत्वा' इति क-पाठः । ४'रूपेण ' इति क-पाठः। ५ प्रध्वंसदू' इतिःग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org