________________
३८८
वस्वार्थाधिगमसूत्रम्
[अभ्यायः ५ द्वादिनं प्रति, विनाशे च सहेतुके प्रतिपादिते यदुक्तं-मुद्गरादेरसामर्थ्य विनाशकरणं प्रति तदयुक्तम् । अस्त्येव हि सामर्थ्य तद्भावभावितया कपालाधुत्पत्तेः, विकल्पत्रयं च सुकुमारप्रज्ञेन प्रमाणविचारपरिक्लेशासहिष्णुना यथाकथश्चिदुपन्यस्य प्रथमविकल्पोऽतिस्थूल इत्येवोपेक्षितो मनागागतत्रपेण, तथा द्वितीयविकल्पः स्वभावान्तरं किल क्रियते विनाशहेतुना, घटतादवस्थ्ये तु सकलघटनिष्पाद्यजलधारणादिक्रियाप्रसङ्ग इति शापदानमुदघोषि । एतच्च विकल्पद्वयं न जाने किं प्रथमतरमेव मायासूनुनोत्खातमुत्पन्नसर्वार्थज्ञानेनाहोस्विद् भिक्षुवरधर्मकीर्तिनैव स्वयमुत्प्रेक्षितमिति यत् सत्यं विस्मिताः स्मोऽनया वाचोयुक्त्या, किं विनाशहेतुर्घटमेव करोति उत स्वभावान्तरमिति ? यद् विनाशहेतुना क्रियते तदेवैकं न व्यपादेशि गलितधिषणेन, घटविनाशहेतुर्घटविनाशमेव करोति, स चोक्तोऽवस्थान्तरापत्तिलक्षणः प्रथममेव, अभावविकल्पेऽपि पर्युदासाभ्युपगमे किल विवक्षिताद् भावादन्यं भावमेव करोति, ततश्च पूर्ववद् व्यतिरेकाव्य तिरेकविकल्पानतिक्रमः, व्यतिरेकाव्यतिरेकविकल्पौ च विहितप्रतिक्रिया प्राग विकल्पाभासत्वाच्चायुक्ती, प्रसज्यप्रतिषेधपक्षे त्वभावं करोति, भावं न करोतीति वाक्यार्थः, तदेतदयुक्तम्, अस्सत्प्रक्रियानवबोधात्, जैनी प्रक्रिया द्रव्यपर्यायावुभौ वस्तु भावाभावस्वभावं, न चाभावः कश्चिद् भावानिर्लठितः सम्भवति यं विनाशहेतुः करिष्यति, न चास्ति काचित् क्रिया द्रव्यादत्यन्तव्यतिरिच्यमानस्वभावा यस्याः प्रसज्यप्रतिषेधेन निवारणा क्रियेत, द्रव्यमेव हि तथोद्भुतपरिणामं क्रियाव्यपदेशमश्नुते द्रव्यनयस्य, पर्युदासो हि विधिरूपत्वाद् द्रव्यास्तिकः, इतरः पर्यायनयः प्रतिषेधमात्रत्वात्, एतौ च परस्परापेक्षावेव च वस्तु नैकको, ततश्च विभागाभावादसद्विकल्पता । अपिच भावो वस्तु परिनिष्पन्नं, तस्य कुतः कारणेनाभिसम्बन्धः १ पूर्वोत्पादार्थत्वात् करोतेः, अथ प्रैष्टुं कुर्वित्युपचारः, तथापि यत् किश्चिद् भावस्य करणम्, अभावश्चापरिनिष्पन्नमवस्थान्तररूपं वस्तु, तन्निष्पादनाय यत्नः क्रियते, तच्च नात्यन्तमसन सर्वथा सदित्यभाव विशिष्टस्यैव वस्तुनो वस्तुत्वात् । यदप्युक्तं चैयर्थ्याच्च न विनाशहेतुरिति तदप्यसमीक्षिताभिधानम्, असत्प्रक्रियानवगमात् । वैससिकः प्रायोगिकश्च द्विधा विनाशः, तत्र प्रायोगिकः कादाचित्कत्वात् पटादिवत् सहेतुकः, न च दृष्टमपहोतुं शक्यं, प्रमाणतः पदार्थस्वरूपावबोधात्, आत्मलाभसमनन्तरमेव च सर्वथा विनश्यन्ति पदार्था इति न किञ्चिदस्मिन्नर्थे प्रमाणमस्ति, कालान्तरावस्थायिनि च विनाशे प्रत्यक्षबुद्धेयापारः । यच्चावाचि-प्रकाशादयो लब्धात्मलाभाः प्रकाशादिस्वभावतयां स्वजन्मैवापेक्षन्ते, नापरं हेत्वन्तरम्, एतदप्यसङ्गतम्, यदि प्रकाशादय उत्पन्नाः पुनरुत्पत्तौ हेत्वन्तरं नायेक्षन्त इति वाक्यार्थः ततः किं केन सङ्गतम् ? न ह्युत्पन्नः पदार्थस्तेन रूपेण पुनर्हेतुमभिलपति, लब्धात्मलाभः कालान्तरे हेतुमपेक्ष्य विनश्यतीति जागंद्यामहे ॥ ननु च स स्वहेतोरेवोत्पद्यमानस्तादृशो भवति येनोत्पत्तिसमन
१. लक्षणात् प्रथम' इति क-ख-पाठः। २ 'कल्पासत्वात् इति क-ख-पाठः । ३ 'कल्पना ' इति क-पाठः । ४'पृष्टं' इति ग-पाठः। ५ 'कारणं' इति क-ख-पाठः। ६ 'जगद्यामहे' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org