Book Title: Tattvarthadhigamsutram Part 1
Author(s): Umaswati, Umaswami, Hiralal R Kapadia
Publisher: Jivanchandra Sakarchandra

Previous | Next

Page 417
________________ ३७० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ स्तिकः तदभिप्रायादैक्यम्, एवं विश्वपरिणामप्रपञ्चस्थितिभाञ्जि द्रव्याणि स्वात्मन्यविद्यमानै रेव पर्यायतः कश्चिद् धर्मैरुत्पद्यन्ते कैश्चिद् विद्यमानैरपि धर्मेंविनश्यन्ति, कैश्चित्पुनरन्वयिभिः पर्यायनित्यानि ध्रुवाण्येव सर्वद्रव्याणीति मौनीन्द्रदर्शनमनवद्यम् ॥ सम्प्रति प्रस्तुतमनुश्रियते । द्विप्रदेशस्य स्कन्धस्य परमाण्वन्तरेण योगे त्रिप्रदेशस्कन्धोत्पादः, चशब्दात् त्रयाणां च परमाणूनां सङ्घातपरिणामे व्यणुकस्कन्धस्योपजननम्। एवमित्यादिनाऽतिदेशं करोति ॥ शीर्षप्रहेलिकास्थानपर्यन्तवर्ति द्विसङ्ख्योपक्रमं गणितम्, तत्राप्युक्तेन न्यायेन भावना कार्या, ततः परं गणितविषयातिक्रमादसङ्ख्येयो राशिः, तत्रापि संघातपरिणामभावना तुल्यैव, ततोऽप्यसङ्ख्येयादुपरि बहुबहुतरबहुतमपरमाणुप्रचयोऽनन्तकराशिः, तस्मिन्नपि संहतिपरिणतिभावना सदृश्येव, अनन्तानन्तानां चेत्यनेनानन्तकराशेरनन्तानि स्थानानि भवन्तीति प्रदर्शयति । एवं तावत् संघातात् परस्य प्रदेशाः स्कन्धतयोपजायन्त इति ॥ अधुना द्वितीयं प्रकारं वक्तुकाम आहभा०-एषामेव भेदादू विप्रदेशपर्यन्ताः ॥ टी०-घणुकादिक्रमेणानन्तानन्तपरमाणुकपर्यवसानाः स्कन्धाः संघाताद ये समुत्पभास्तेषां पर्यन्तवर्तिनः स्कन्धादेकोऽणुर्यदा भिन्नः पृथग् भवति तदैकाणुभेदात् तन्न्यूनः स्कन्धः समुत्पद्यते, एवं द्विव्यादिपरमाणुभेदक्रमेणाधोऽधो यावत् द्विप्रदेशस्कन्धोत्पाद इति भावनीयम्। भा०-ऐत एव च संघातभेदाभ्यामेकसामयिकाभ्यां विप्रदेशादयः स्कन्धा उत्पद्यन्ते । अंन्यसंघातेनान्यतो भेदेनेति ॥२६॥ अत्राह-अथ परमाणुः कथमुत्पद्यते इति ? । अत्रोच्यते टी०-एत एव चेत्यादिना तृतीयविकल्पभावना, बहुवचननिर्देशात कृतैकशेषो निर्देशः, संघातश्च भेदश्च संघातभेदौ संघातभेदौ च संघातभेदौ च संघातभेदाः, एत एव ह्यनन्तरोक्ता घणुकादयः स्कन्धाः सङ्घातभेदाभ्यामेकसामयिकाभ्यां उद्भवन्ति, अविभागीयः कालः परमनिरुद्धश्च समयः स तत्रैकस्मिन् समये अभिन्नकाले न्यणुकस्कन्धादेकोऽणुर्भिद्यते परः संहन्यते समकमेवेत्यतः सङ्घातभेदाभ्यामुत्पद्यन्ते, समये भवः सामयिकः, एकशब्दः समानार्थाभिधायी, एकशब्दः समानार्थे, तद्यथा-'तेनैकदिक्' (पा० अ० ४, पा० ३, सू० ११२ ) सुदामा पर्वतेनैकदिगित्यण् । सौदामिनीति विद्युदेकदिक समानदिगित्यर्थः । समानः समयो ययोः सङ्घातभेदयोस्ताभ्यामेककालाभ्यामिति यावदिति, पाठान्तरं वा एकसामयिकाभ्यामिति, एवं ब्यणुकादयोऽपि भाव्याः, अन्यस्य परमाणोः सङ्घातेनान्यतः स्कन्धाद् भेदेनेत्येवं स्कन्धात् कारणादुत्पद्यत इति प्रतिपादितम् ॥२६॥ १. एतदेव च ' इति क-ख-योर्भाष्ये टीकायां च पाठः। २ सामायिकाभ्यां ' इति क-ख-पाठः। ३'अन्यस्य संघा.' इति घ-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546