________________
३३० .. तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ५ टी-एकजीवस्य चेत्यादि भाष्यम् । जीवो ज्ञानदर्शनोपयोगस्वभावः स कदाचित् सामान्येन निर्दिश्यते जीव इत्याक्षिप्तसकलनारकादिभेदो गोशब्दवत् समस्तस्त्रभेदाक्षेपी, कदाचित् प्रतिविशिष्टोपाधिव्यवच्छिन्नो व्यक्तिपदार्थाश्रयणेन, तत्रैकशब्देन सर्वजीवराशिव्यवच्छेदमादर्शयति, एकजीवस्य एकस्या व्यक्तेरिति, चशब्देनासङ्ख्येयप्रदेशतामात्मन्यनुसन्धत्ते, प्रसिद्धधर्मादिक्रमोल्लङ्घनाभिधानं तुल्यप्रदेशाख्यानलाघवार्थम् । एकयोगाकरणाचोनीयते सूत्रकाराभिप्रायः सङ्कोचविकासस्वभावास्तुल्येऽप्यसङ्ख्येयप्रदेशत्वे जीवप्रदेशाश्चर्मादिवत्, धर्माधर्मयोस्तु सततमेव विततावस्थिताः, ते च सङ्कोचविकासस्वाभाव्याज्जातुचिनिकृष्टकुन्थुविग्रहयाहिणः कदाचित् तामेव सङ्ख्यामजहन्तः स्थूलं करिणः शरीरमाददते विकाशित्वादिति ॥८॥ आकाशस्यापि यथोक्तद्रव्यवत् प्रदेशनियममभिधित्सुराह
सूत्रम्-आकाशस्यानन्ताः ॥५-९ ॥ टी०-अगवाहदानादाकाशमित्येवं न गृह्यते लोकाकाशमात्रसिद्धेः, नबलोकेऽवगाढमस्ति किञ्चिज्जीवपुद्गलादि, तदभावादनाकाशमेव तत् स्यात्, इष्यते च, अतः संज्ञैवेयमनादिकालीना द्रव्यान्तरस्य धादिसंज्ञावत् ॥ अन्ये मन्यन्ते-तस्याप्यवगाहदानशक्तिरस्ति, सा त्ववगाहकाभावान व्यज्यते, यदि स्यादवगाहकं तत्र व्यापारं यायात् तदवगाहपरिणत्या, न त्वस्ति, तस्मात् तदप्यवगाहदानशक्तियुक्तत्वादाकाशम् ॥ अपरे पुनरुपचारमाचरन्ति-आका
__ शवदाकाशं शुषिरदर्शनादिति, एतदप्यसत्, सिद्धान्तापेतत्वात् । अथ ये अलोकेऽवगाह
हः व्याचक्षते-व्ययोत्पादौन स्वतो व्योम्नः, किन्तु परप्रत्ययाजायेते, अवगाहक
सन्निधानासन्निधानायत्तावुत्पादव्ययाविति, तेषां कथमलोकाकोशे? अवगाहकाभावाद् , अर्धवैशसं च सतो लक्षणं स्याद् , व्यापि चेष्यते स्थित्युत्पादव्ययत्रयमिति । अत्रोच्यते-य एवं महात्मानस्तर्कयन्ति स्वबुद्धिबलेन पदार्थस्वरूपं तेत्र निपुणतरमनुयोक्तव्याःकथमेतत् ? वयं तु विस्रसापरिणामेन सर्ववस्तूनामुत्पादादित्रयमिच्छामः प्रयोगपरिणत्या च जीवपुद्गलानाम् , इत्थं तावदस्मदर्शनमविरुद्धसिद्धान्तसद्भावम् , अस्मदुक्ताथानुगुणमेव च भाष्यकारेणाप्युच्यते ॥
भा०-लोकालोकाकाशस्यानन्ताः प्रदेशाः । लोकाकाशस्य आकाशस्य प्रदेश- -
- तु धर्माधमैकजीवैस्तुल्याः ॥९॥ सङ्ख्या
टी०-लोकेत्यादि । यद्याकाशशब्देनाकाशमविशिष्टमभिधित्सितं ततोऽनन्तप्रदेशता समीचीना भवेद् , विभागव्याख्यानं च जीवाजीवाधारक्षेत्रं लोकस्ततः पर
१ एकयोगकरणे हि जीवास्तिकायस्य जीवसमूहमयस्यासंख्येयप्रदेशत्वं स्यात्, न तु प्रतिजीवं सांकर्यात्, एक. जीवेति प्राकसूत्रे न प्रवेशितम् , यथा दश वर्षसहस्राणि प्रथमायां भवनेषु व्यन्तराणां चेत्यत्र, अन्यथा तत्रापि दश घर्षसहस्राणि रत्नप्रभाव्यन्तरेष्वित्येवं वक्तुं शक्यत्वात्, यथा वा रूपिजीवयोगोपयोगेष्वादिमानित्यपि नोक्तमिति । २ आकाशस्यावगाह इति सिद्धस्याकाशस्योपकाराख्यानं; न तु तेनैव सिद्धिः, तस्य साधनत्वेऽपि च व्याप्यत्वात् न तदभावे आकाशाभावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org