________________
सूत्रे १०-११] स्वोपज्ञभाष्य-टीकालङ्कृतम् मलोकः, अतः सर्वाकाशस्यानन्ताः अपर्यवसाना इत्यर्थः । अथ योऽयं जीवाजीवाधारावधिना कृतो लोकाकाशविभागस्तत्र कियन्तः प्रदेशा इत्याह-लोकाकाशस्येत्यादि । अन्यूनानधिकप्रतिपत्त्यर्थस्तुशब्दः । धर्माधर्मैकजीवैस्तुल्या एव नोनाधिकभावभाज इति ॥९॥ अथ पुद्गलानां का प्रदेशस_ख्येत्युच्यते
सूत्रम्-सङ्ख्येयासङ्ख्येयाश्च पुद्गलानाम् ॥ ५-१० ॥ टी-सङ्ख्येया इत्यादि सूत्रम् । पूरणगलनपरिणतिलब्धसंज्ञकाः पुद्गलाः परमापक्रमा अचित्तमहास्कन्धपर्यवसाना विचित्ररूपादिपरिणतयस्तेषां प्रदेशाः सम्भवतः सङ्ख्येया असङ्ख्येया अनन्ताश्च भवन्ति, सङ्ख्येयपरमाणूपचितः स्कन्धः सङ्ख्येयप्रदेशः, एवमितरावपि स्वसङ्ख्यावच्छिन्नाणुघटितावसङ्ख्येयानन्तप्रदेशौ वाच्यौ, अनुपात्तानन्तप्रदेशता सूत्रे न लभ्यते, तल्लाभाय यत्नश्वशब्दोपादानं, तदर्थदर्शनार्थमिदमाहपुतलानां प्रदेश- भा०-सङ्ख्येया असङ्ख्येया अनन्ताश्च पुद्गलानां प्रदेशा संख्या भवन्ति-अनन्ता इति वर्तते ॥१०॥
टी०-अनन्ता इति वर्तते, तदेतदुक्तं भवति-अनुवर्तन्ते च नाम वि(ध)धेयो न चानुवर्तनादेव भवन्ति, किं तर्हि ? यत्नादिति । नन्वणुरपि पुद्गलशब्देनाक्षिप्तः पूरयति गलति च यतः तस्य चानन्तरसूत्रेण सङ्ख्येयासङ्ख्येयानन्तप्रदेशविकल्पानामन्यतमेन विकल्पेन भवितव्यम्, पुद्गलवाभावो वा परमाणोः, यदि च सङ्ख्येयादिप्रदेशभागिष्यते ततोऽगुरेव न स्याद् घटादिवत्, अथाप्रदेशस्ततोऽसन्नती गगनोत्पलादिवदिति, अत्रोच्यते-द्वये प्रदेशाः द्रव्यरूपाः पर्यायरूपाः, पर्यायस्वभावाश्च रूपादयस्तदङ्गीकरणेन सप्रदेशः परमाणुः ॥१०॥
___ अथ यथा :द्रव्यात्मकैरणुप्रदेशैः सप्रदेशो घटस्तथाऽणुरित्येवमसिद्धार्थताप्रचिकाशयिषया आह
सूत्रम्-नाणोः॥५-११॥ भा०-अणोः प्रदेशा न भवन्ति ॥ टी०-अणोरापूरकाः परिणामिकारणभावभाजो द्रन्यरूपाः प्रदेशा न भवन्ति । अथ सप्रदेशत्वेन परमाणुत्वाभावः साध्यते, ततः स तादृशोऽन्त्यः प्रदेशः परमाणुन भवतीति प्रतीतिविरोधा, सप्रदेशत्वं चाव्यापकासिद्धदोषाघातं वनस्पतिचैतन्ये स्वापवत् । नहि पक्षीकृतेऽणौ सर्वत्र सप्रदेशत्वमस्ति, क्षेत्रकालभावाख्ये द्रव्यपरमाणावेव तत् । येऽपि प्रमाणयन्ति मध्यविभागादिरहितत्वायोमोत्पलादिवदसन्नसौ तद्वत्त्वाद् वा नाणुर्घटादिवदित्यत्रापि पूर्वके प्रमाणे विज्ञानक्षणेनानेकान्तः, दिग्विभागकल्पनाऽप्यनेन प्रत्युक्ता, पाश्चात्त्यप्रयोगे हेत्वसिद्धतोद्विभावयिषया भाष्यकार आह
१ परमाणुरपि संयुज्य पूरयति वियुज्य गालयतीति, कश्चिदपि नानादिपरमाणुः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org