SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३३२ तस्वार्थाधिगमसूत्रम् [ अध्यायः ५ भा०-अनादिरमध्यो प्रदेशो हि परमाणुः ॥ ११ ॥ परमाणोः स्वरूपम् १ टी०-यस्मादादिमध्यान्त्यप्रदेशैः परिहीण एव परमाणुरिष्यते, अप्रदेशग्रहणादन्तपरिग्रहः, अथवाऽऽदिमध्यग्रहणादर्थप्राप्तमेवान्त्यग्रहणम्, अस्मिन् पक्षे अप्रदेश इति प्रतिविशिष्टप्रदेशनिराकरणमेव कृतं भवति, आदिमध्यान्तप्रदेशैरप्रदेशोन रूपादिभिरिति। न चादिमध्यान्तावयव निबन्धनं वस्तुत्वं प्रतीतम्, विनाऽपि तैर्विज्ञानाद्युपलब्धः, अविभागत्वादेव च व्योमानुप्रवेशोऽपि प्रत्याख्यातः, न च सर्वगतत्वव्याघातो व्योम्नः, सकलवस्तुसम्बधित्वेनाभ्युपगम्यमानत्वात् प्रसिद्धविज्ञानक्षणवत्, अतः स्वयमेव प्रदेशोऽसौ,न तस्यापरे प्रदेशाः सन्ति द्रव्यस्वभावाः, सर्व च साधनं तनिराकरणेऽभिधीयमानमनुपासितयथार्थगुरुवचसा परेणैवमधिगतद्रव्यपर्यायनयद्वयसद्भावेन स्याद्वादिना विघटनीयमागमयुक्त्यनुसारिणेति॥११॥ अथैतानि धर्माधर्मपुद्गलजीवद्रव्याणि किं व्योमवत् स्वात्मप्रतिष्ठान्याहोस्विजलादिवदाधारान्तरप्रतिष्ठानीति ?। उच्यते-निश्चयनयाभिप्रायाव सर्वमेव वस्तु स्वात्मप्रतिष्ठं व्योमवत्, व्यवहाराभिप्रायाद् धर्माधर्मपुद्गलजीवानाम् सूत्रम्-लोका काशेऽवगाहः ॥ ५-१२ ॥ अवगाहविचारः भा०-अवगाहिनामवगाहो लोकाकाशे भवति ॥ १२ ॥ टी.-अवगाहिनाम्-अनुप्रवेशवतामवगाहः-प्रवेशःप्रतिष्ठा पुद्गलादीनां धर्माधर्मद्रव्यद्वयावगाढे व्योनि भवति, धर्माधर्मयोश्चाकाशेवगाहोऽनादिकालीनः, परस्पराश्लेषपरिणत्या तथासनिवेशात्, इतरत्राकाशेवगाहो नास्ति जीवादीनाम्, धर्माधर्माभावात्, गतिस्थित्युपग्रहकारित्वात् धर्माधर्मयोः, तावेव तत्र कमान्न स्तः ? न हि स्वभावे पर्यनुयोगोऽस्तीत्युपेक्ष्य लोकाकाशेऽवगाहो धर्मादीनामेतावदुक्तम्॥१२॥ ____ इदं त्वधुना वाच्यं--किं सर्वात्मनाऽवगाहः सर्वलोकाकाशप्रदेशव्याप्त्या क्षीरोदकविषरुधिरादिवदुत पुरुषहदवदिति ? । एतद् विभज्योच्यते सूत्रम्---धर्माधर्मयोः कृत्स्ने ॥ ५-१३ ॥ भा०-धर्माधर्मयोः कृत्स्ने लोकाकाशेऽवगाहो भवतीति ॥ १३॥ टी०-सर्वत्र लोकाकाशे धर्माधर्मयोरयुतसिद्धावपि चन्द्रमण्डलाधेयचन्द्रिकावदवगाहो न परतः, चेतनावच्छरीर एवोपकारदर्शनाद् बहिरदर्शनाच्च तन्मात्रवर्तित्वमध्यवसीयते, अतः क्षीरोदकवदन्योन्यावगाहपरिणत्या व्यवस्थानं, न पुरुषहदवदिति व्यवच्छिनत्ति कृत्लशब्दोपादानादिति ॥१३॥ १. धर्मादीनां' इति क-पाठः। Jain Education International For Private & Personal Use Only . www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy