________________
सूत्रं १५] स्वोपज्ञभाष्य-टीकालङ्कृतम्
३३३ अथ पुद्गलानां कथमवगाहो लोकाकाश इत्युच्यते
सूत्रम्-एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ ५-१४ ॥
टी--एकप्रदेशादिष्वित्यादि सूत्रम् । एकप्रदेशादिग्विति समानाधिकरणगों बहुव्रीहिः, एकश्वासौ प्रदेशश्चेति, प्रदेश उक्तलक्षणः, एकप्रदेश आदिर्येषां तेष्वेकप्रदेशादिषु प्रदेशेषु पुद्गलानामणुप्रभृतीनामवगाहो व्याख्येयः । भा०-अप्रदेशसङ्ख्येयासङ्ख्येयानन्तप्रदेशानां पुद्गलानामेकादिष्वाका
शप्रदेशेषु भाज्योऽवगाहः । भाज्यो विभाष्यो विकल्प्य इत्यनपुद्गलाना
___ र्थान्तरम् । तद्यथा-परमाणोरेकस्मिन्नेव प्रदेशे, यणुकस्यैकस्मिन् मवगाह:
___ बयोश्च, व्यणुकस्यैकस्मिन् द्वयोस्त्रिषु च, एवं चतुरणुकादीनां सङ्ख्येयासङख्येयप्रदेशस्यैकादिषु सङ्ख्येयेषु असङ्ख्ययेषु च, अनन्तप्रदेशस्य च॥ १४॥
टी0-अप्रदेशेत्यादि भाष्यम् । अविद्यमानद्रव्यान्तरप्रदेशः परमाणुरप्रदेशः, स्वयं च प्रदेशः,प्रचयविशेषात् सङ्ख्येयपरमाणुघटितः सङ्ख्येयप्रदेशः पुद्गलः, एवमसङ्ख्येयानन्तप्र. देशावपि स्कन्धौ पुद्गलाविति वाच्यौ, एकादिष्वाकाशप्रदेशष्विति सूत्रावयवं स्पष्टतरेण वृत्तिवाक्येन व्याचष्टे-एक आदिर्येषामाकाशप्रदेशानां तेषु भाज्योऽवगाहः अप्रदेशादीनाम्, अनेकार्थत्वाद् धातूनां विभाष्यो विकल्प्य इत्याह, विशेषेणातिशयेन परमाणूपक्रमेण भाषणीयो व्याख्येयः, विकल्पस्तु भेदसम्भवे, यथा घणुकस्यैकस्मिन् प्रदेशे वयोश्चेत्यादि भाष्य सुज्ञानमेव, परमाणोस्तु भेदाभावादेकस्मिन्नेव प्रदेशेऽवगाह इति विकल्पाभावः, कथं पुनरेकाकाशप्रदेशेऽत्यन्तसूक्ष्मेऽसङ्ख्येयादिप्रदेशाः स्कन्धाः प्रतिष्ठां प्रतिपद्यन्ते ? न हि घटे चतुरुदधिजलावस्थानमस्ति,अतिबहुत्वादल्पावकाशत्वाच घटस्येति । अत्रोच्यते-ननु प्रचयविशेषाद् दन्तिदन्तशकलमल्पप्रदेशावगाहि दृष्टम्,भेण्डखण्डं तु तावत्परिमाणमेव बहुतराकाशप्रदेशव्यापि दृष्टम्, अथ च बहुतरावयवता कुञ्जरदन्तशकले, तस्माद् परिणतिविशेष एवासौ तादृशः परमसूक्ष्मो येनानन्ता अपि परमाणवः स्कन्धीभूताः प्रदेशमेकमाश्रित्य विहायसो वर्तन्ते, यथा वाऽतिनिबिडेनायस्पिण्डेन व्याप्ते नभोदेशे निरन्तरे भस्वासमीरणसमीरिताः पुनर्विभावसोरवयवास्तत्रानुमज्जन्ति, विध्याप्यमाने च विगतरन्धेष्यसि प्रतप्ते वारिलेशाः सूक्ष्मपरिणामवर्तिनो निव्हति प्रविशन्त्येवेत्येवमागोपालाङ्गनादिजनप्रतीतमाकाशस्य दुर्भरत्वमिति मा मुहः, सिकताकणनिकरेण वा परिपूरित प्रस्थके प्रस्थ एवापरोऽपों विशन् दृष्टः, एकप्रदीपप्रभावितानकावभासिते च गर्भगृहकादौ प्रदीपसहस्रप्रभाजालाकारपरिणतपुद्गलानुप्रवेशः प्रत्यक्षप्रमाणसमधिगतस्तद्वदेवैकाकाशदेशे धनपरिणतिविशेषाभ्युपगमादनन्तपरमाणुघटनाविनिर्मितस्कन्धावस्थानमवसेयमिति ॥ १४ ॥
१'नन्तानां' इति क-ख-पाठः। २ एकः संख्येयशब्दोऽधिकः ग-पाठः । ३ 'विकल्प्यस्तु' इति ग-पाठः । ४. रेकाकाश' इति ग-पाठः। ५ ' एवापरः पयसां प्राविशन् ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org