SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३३४ तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ५ अथ जीवानां कियति क्षेत्रेऽवगाह इति उच्यते सूत्रम्-असख्येयभागादिषु जीवानाम् ॥ ५-१५॥ टी०-असङ्ख्येयभागादिष्वित्यादि सूत्रम् । असङ्ख्येयभागादिष्विति समानाधिकरणगर्भो बहुव्रीहिः, लोकाकाश इत्यनुवर्तते सप्तम्यन्तम्, अर्थवशाच विभक्तेः परिणाम इति लोकाकाशस्यासङ्ख्येयभागादिष्वित्यभिसम्बन्धनीयम्, असङ्ख्येयश्चासौ भागश्च स जीवानामवगाहः _. आदिर्येषां तेऽसङ्ख्येयभागादयस्तेऽसङ्ख्येया एव भागाः, तत्र कदापानामा चिदेकस्मिन् लोकाकाशप्रदेशासङ्ख्येयभागे कदाचिद् द्वयोरसङ्ख्येयभागयोः कदाचित् त्रिष्पित्यादि जीवानामवगाहो भवति ॥ भा०-लोकाकाशप्रदेशानामसङ्ख्येयभागादिषु जीवानामवगाहो भवति, आ सर्वलोकादिति ॥१५॥ ___अत्राह-को हेतुरसङ्ख्येयभागादिषु जीवानामवगाहो भवतीति ? । अत्रोच्यते टी-लोकाकाशेत्यादि भाष्यम् । अमुना भाष्येणाधिकारानुवृत्तिं दर्शयति विभक्तिपरिणतिं च । लोकाकाशप्रदेशाः सर्व एवासङ्ख्येयास्ते पुनरसङ्ख्येयैर्भागैर्धिया विभज्यन्तेऽङ्गुलासङ्ख्येयभागप्रमाणैः, तत्रैकस्मिन्नसङ्ख्येयप्रदेशे वियत्खण्डे जघन्यत एकजीवस्यावगाहो भवति कार्मणशरीरानुविधायित्वात्, कश्चित् पुनस्तादृशं खण्डद्वयमाक्रम्य वर्तते, कश्चित् त्रीणि तादृशं, परश्चत्वारीत्यादि यावत् सकललोकाकाशमन्यो व्याप्यावतिष्ठते,समुद्धातकाले केवल्येव, नापरः, लोकमर्यादया, न पुनरलोकाकाशस्यैकमपि देशमाक्रामतीति दर्शयति ॥ १५ ॥ अत्राहेत्यादि सम्बन्धग्रन्थः। एवं मन्यतेऽवधृतासङ्ख्येयप्रदेशपरिमाणस्य कार्मणशरीरापादितौदारिकादिशरीरसम्बन्धादल्पबहुप्रदेशव्यापितायां को हेतुरसङ्ख्येयभागादिष्वित्यादि। नहि तुल्यपरिमाणानां पटादीनामवगाहे वैषम्यं दृष्टम्, अस्यापि तुल्यप्रदेशत्वात् किमिति तथा नाभ्युपेयत इत्याक्षिप्ते, अत्रोच्यत इत्याह । अत्र प्रश्ने प्रतिविधीयते सूत्रम्--प्रदेशसंहारविसर्गाभ्यां प्रदीपवत् ॥ ५-१६ ॥ टी०-प्रदेशलक्षणमुक्तम्, एकस्यात्मनः प्रदेशा लोकाकाशप्रदेशराशिमानाः तेषां संहारः-सोचः विसर्गो-विकासस्ताभ्यां संहारविसर्गहेतुभ्यामेतदेवं वैषम्यं प्रदीपवत, यथा प्रदीपास्तेजोऽवयवा यथावकाशानुविधायिनः स्वल्पेज्वकाशे सङ्कोचमास्थायासते, महति . चोपने विकाशं भजन्ते, तथात्मनोऽपि प्रकर्षप्राप्तसङ्कोचस्यैकस्मिन्नसङ्ख्येयआत्मप्रदेशानां , TA भागे लोकस्यावस्थानमुत्कृष्टविकाशप्राप्तस्य च केवलिनः सर्वलोकेऽवगाहोसङ्कोचविकासौ न्या मध्यमावस्थानेकभेदेति । एतदेव विस्तरेण दर्शयति भाष्यकार:भा०-जीवस्य हि प्रदेशानां संहारविसर्गाविष्टौ प्रदीपस्येव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002715
Book TitleTattvarthadhigamsutram Part 1
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1925
Total Pages546
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy