________________
सूत्रं १६ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
३३५
टी० - जीवस्य हीत्यादि । यस्माज्जीवस्य प्रदेशानां सङ्कोच विकासाविष्येते, पटस्येव पिण्डितविततावस्थायिता, प्रदीपप्रकाशस्येव सङ्कुचनप्रसारणे, चर्ममण्डलस्येव संहारविसर्गाविति ॥ ननु च तद्वदेवानित्यः स्यात्, असाम्प्रतमिदम्, नहि स्याद्वादिभिः प्रदीपादीनामनित्यत्वमेकान्ततोऽभ्युपगम्यते, द्रव्यपर्यायनयद्वयाविष्टत्वात् सर्वस्य वस्तुन इत्यतो नित्यानित्यादिविकल्पभाजः सर्वे पदार्था इति सङ्गरो जैनानाम् । आत्माऽप्येवंधर्मक एवेति चेत्, सिद्धसाध्यता । एतेनैतदपि प्रत्युक्तम्
"वर्षातपाभ्यां किं व्योम्नश्वर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत् सोऽनित्यः खतुल्यवेदसत्फलः ॥
"
व्योमैकान्तेन नित्यं नापि चर्मा नित्यमुत्पादादित्रययुक्तत्वाद् विश्वस्य वस्तुनः, तच्चोक्तं वक्ष्यते च, एकान्तनित्यानित्ययोश्च कर्मफलसम्बन्धाभावः ॥ 'दीपस्य सङ्कोच विकास प्रदिदर्शयिषया आह
भा०—तद्यथा - तैलवर्त्यग्न्युपादानप्रवृद्धः प्रदीपो महतीमपि कूटागारशालां प्रकाशयति, अण्वीमपि, माणिकावृतो माणिकां, द्रोणावृतो द्रोणं, आढकावृतवाढ, प्रस्थावृतः प्रस्थं, पाण्यावृतः पाणिमिति ॥
---
टी० - तद्यथा - तैलवर्तीत्यादि । भास्वत्किरणनिकरः प्रदीपो माणिकाटकप्रस्थाद्यधिकरणसम्बन्धी निरावरणव्योमसमन्धकारावधृतप्रमाणः तेजोऽवयवसंहारादल्पोऽल्पतरोऽल्पतमो वाऽन्यतमथ लक्ष्यते, स एव चापनीतसकलस्थगनको विद्योतमानमूलमूर्तिरदभ्रं व्योमदेशमवभासयति, तैलवर्त्यम्युपादानप्रवृद्ध इत्यनेनाविकलां कारण सामग्रीमाचष्टे, कूटागारशालादिमिरनेकामवस्थामादर्शयति, अपरित्यक्तस्वात्मावयवोऽप्यनेकमाकारमादत्ते प्रदीपः ||
भा० - एवमेव प्रदेशानां संहारविसर्गाभ्यां जीवो महान्तमणुं वा पञ्चविधं शरीरस्कन्धं धर्माधर्माकाशपुद्गलजीवैप्रदेश समुदायं व्याप्नोतीति, अवगाहत इत्यर्थः ॥
टी० - एवमेव प्रदेशानामित्यादि भाष्यम्। दान्तिके दृष्टान्तार्थमुपसंहरति- पञ्चविधमौदारिकादिशरीरात धर्माधर्माकाशपुद्गलजीवप्रदेशसमुदायम्, अवश्यमेव हि लोकाकाशे धर्माधर्माकाशपुद्गलाः सन्ति, जीवप्रदेशाश्च भजनीयाः, यत्रैकोऽवगाढो जीवस्तत्रान्यस्याप्यवगाहो न विरुद्ध्यत इति, एवं धर्मादिसमूहं व्याप्नोति, अवगाहत इत्यर्थः ॥ भा०- -धर्माधर्माकाशजीवानां परस्परेण पुगलेषु च वृत्तिर्न विरुद्धयते, अमूर्तत्वात् ।
१ 'असत्फलं ' इति क ख पाठः । २ ० शयति अथो (?) मणिका०' इति क ख पाठः, तत्र अण्वीमपीति नास्ति । ३ अनावृतस्तु स्वावयवमानमाकाशं व्याप्नोति, न तु सर्व जगत्, आत्मा तु समुद्घातकाले लोकव्यापी, सिद्धिकाले तु त्रिभागोनावशिष्टः, अशुषिरसंभूतशरीरानुकार्यवगाहादनन्तरं निष्प्रयोजनत्वेन अवगाहसंकोचाभावः ।
४ एकस्मिनाकाशदेशे अनेकजीवानेकप्रदेशावगाहात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org