________________
३३६
तार्थाधिगमसूत्रम्
[ अध्याय: ५
I
टी० - - धर्माधर्माकाशेत्यादि । धर्मादीनाममूर्तित्वात् परस्परेण वर्तनं न विरोधकारि, नापि पुलविषया वृत्तिर्धर्मादीनां विरुद्धयते, तद्बलेन गतिस्थित्यवगाहदर्शनादात्मनश्च कर्मपुद्गलव्याप्तेः, सिद्धमिदं जीवो महान्तमणुं वा संहारविसर्गाभ्यां विग्रहं गृह्णाति ॥ भा० - अत्राह - सति प्रदेश संहारविसर्गसम्भवे कस्मादसङ्ख्येय भागादिषु जीवानामवगाहो भवति नैकप्रदेशादिष्विति ? । अत्रोच्यते
टी० – अत्राहेत्यादि । इदमिदानीं चोदयति- प्रदेश संहरणसामर्थ्यमस्त्यात्मनः, तत् किमित्यविकलकारणकलापः सर्वान् प्रदेशानुपसंहृत्य एकस्मिन्नाकाशदेशे नावस्थानं कल्पयति प्रतिबन्धकवस्त्वभावात् ? कस्मादसङ्ख्येयभागादिष्ववगाह इष्यते, नैकप्रदेशादिष्विति निरुपपत्तिकमित्याशङ्कयते, अत्रोच्यत इत्याह, न वयमनुपपत्तिकमर्थं प्रतिजानीमहे, किन्तु । भा० – सयोगत्वात् संसारिणां चरमशरीरत्रि भागहीनावगाहित्वाञ्च सिद्धानामिति ॥ १६ ॥
टी० -- संयोगत्वात् संसारिणामित्यादि । योगाः प्रथिता एव औदारिकविग्रहाः, सत्यपि च सामान्योपादाने व्यापित्वात् कार्मणयोग एव परिगृह्यते, सह योगेन सयोगःकार्मणशरीरीतियावत्, सर्वस्य संसारिणो भवितव्यमवश्यं कार्मणेन वपुषा ततश्चानन्तानन्तपुगलप्रचितसर्व संसारिकार्मणशरीरोप श्लेषादसङ्ख्ये यप्रदेशावगाहिंतैव नैकादिप्रदेशावैगाहितेति । चरमशरीर इत्यादि । चरमशरीरं त्रिभागहीनमवगाहन्ते सिद्धा इति च, अनेनैतद दर्शयति - देहे
भागः शुषिरस्तत्पूरणात् त्रिभागही नावगाहः, स च योगनिरोधकाल एव भवति, अत: सिद्धोऽपि तदवस्थप्रमाण एवेति सामर्थ्याभावान्नातः परमस्ति संहरणमनावरणवीर्यस्यापि भगवतः, किं पुनः शेषसंसारिणः ? स्वभावश्चायमेतावानेवोपसंहारः, न चास्ति स्वभावे पर्यनुयोगः । अपि च - सकर्मासौ, ततश्च नास्त्युपसंहृतिरल्पतरा । कर्मवियुक्तः कस्मान्नोपसंहरतीति चेत्, प्रयत्नाभावात् प्रयत्नाभावश्च करणाभावात्, अनवद्यं दर्शनम् । इदमुक्तं भवति - सङ्क्षिपतो विकसनसङ्कोचनधर्मत्वादात्मप्रदेशसन्तानः पद्मनालतन्तुसन्तानवद विच्छेदेन विकासमासादयति, अविच्छेदव प्रदेशानाममूर्तत्वाद् विकासधर्मत्वादेकत्वपरिणतेः जीवाभिवृद्धेर्विकासश्च सिद्धः, छेददशनात् सक्रियत्वाच्चार विन्दनालतन्तुसन्तानवदेव च जीवप्रदेशाः सकलमितरद् विशन्त्यल्पमपहाय, छिन्ने तर्हि मूर्धन्यविध्य शिरः किमिति स प्रदेशसन्तानस्तनुं नाविशतीति चेत्, असदेतत्, वेदनायुषोर्भेदात्, बहवो हि जीवदेशाः समुदायी भूयासते यत्र तदाचक्षते मर्म, बहुमर्मकश्च मूर्धा, महती च वेदना भवति मर्मदेशेषु, आयुर्वेदाध्यवसानादिनिमित्तः सप्तधा प्रसिद्धः,
१ 'प्रदेशेष्विति' इति क-ख-पाठः ।
२ शरीरमात्रे व्यापनात् कार्मणावव्याप्तेः औदारिकादिविग्रहा इति योगव्याख्यायां शरीरमात्राख्यानम् ।
३ औदारिकादिस्थूलशरीराणां कार्मणावगाहानुसारित्वात् कार्मणस्यैव ग्रहः ।
४ असंख्याकाशप्रदेशावगाढस्यैव कार्मणादेर्महात् आरात् अयोगत्वाद् अग्रहः, एकाकाशप्रदेशावबोधस्तु न केवलमन्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org