________________
सूत्रं १७] स्वोपज्ञभाष्य टीकालङ्कृतम्
३३७ तस्मात् संहारविसर्गावात्मनः कर्मानुभावजनिती, न च नाशः सत्यपि संहारे विकासे वाऽमूतेत्वात्, न च स्वतत्त्वनाशोऽस्ति वस्तुनः कस्यचित् सर्वथा स्याद्वादिनं प्रति, प्रदेशसङ्ख्यायावात्मनः सङ्कोचविकासयोः सतोरपि हासो वृद्धिर्वा न समस्ति, क्षेत्रतस्तु तावात्मनः स्यातामिति प्रतिपद्यध्वम् ॥ १६॥
भा०-अत्राह-उक्तं भवता ( अ०५, सू०१)-धर्मादीनस्तिकायान् परस्ताल्लक्षणतो वक्ष्याम इति । तत् किमेषां लक्षणमिति ? । अत्रोच्यते
टी०–अत्राह-उक्तं भवतेत्यादिसम्बन्धग्रन्थः । अस्यैवाध्यायस्य प्रथमसूत्रे ताँल्लक्षणतः परस्ताद् वक्ष्याम इत्युक्तं तदिदानीमवकाशप्राप्तमभिधीयते
सूत्रम्-गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥ ५-१७ ॥
टी-गतीत्यादि सूत्रम् । अथवा तुल्येऽसङ्ख्येयप्रदेशत्वे सति कृत्स्नलोकव्यापित्वमेव धर्माधर्मयोर्न पुनरसङ्ख्येयभागादिषु वृत्तिरित्येतत् कथमनपदिष्टहेतुकमवसातुं शक्यमित्यत्र ब्रमो वयमवसीयतामसंशयम्, यस्मात् प्रयोगविस्रसापरिणामजनितामनेकप्रकारां सार्वलौकिकीमन्यद्रव्येष्वसम्भवन्तीमात्मपुद्गलानां क्रियामारभमाणानां चक्षुषो दर्शनशक्तरुपग्राहकादित्यादिरश्मिवद् गतिस्थित्योरुपग्राहको धर्माधर्माविति कार्यतो निश्चीयते सकलजगद्व्यापिनाविति, तच्चासाधारणं कार्य सूत्रेण दर्शयति ॥
भा०-गतिमतां गतेः स्थितिमतां च स्थितेरुपग्रहो धर्माधर्मयोरुपकारो यथासङ्ख्यम् । उपग्रहो निमित्तमपेक्षाकारणं हेतुरित्यनान्तरम् । उपकारः प्रयोजनं गुणोऽर्थ इत्यनान्तरम् ॥ १७ ॥
टी०-गतिमतामित्यादि भाष्यम् । देशान्तरप्राप्तिहेतुः परिणामो गतिः, तद्विपरीतः परिणामः स्थितिः, तद्वन्तस्तादृशा परिणामेनाविष्टा इति, अत एवंविधक्रियापरिणतद्रव्यमेव गतिस्थितिशब्दाभ्यामुच्यते, तव्यतिरेकेण गतिस्थितिक्रियानुपलब्धेः, एकस्यैवोपग्रहद्वयनिवृ. स्यर्थ यथासङ्ख्यकमुपन्यस्यति-गतिमतामित्यादिना भाष्येण । जीवपुद्गलाः क्रियावन्तो यत्र च गतिः तत्रावश्यतया स्थित्यापि भवितव्यम् । अथवा धर्मद्रव्यस्य सन्निहितत्वात् किमित्यव्याहता गतिरेव सततं न भवत्यविकलकारणकलापसन्निधाववश्यंभाविनी कार्योत्पत्तिरेवं स्थितिरपि वाच्येत्याक्षिप्ते गतिमतामित्याह । स्वत एव गतिपरिणतिर्येषां द्रव्याणां स्थितिपरिणतिश्च तेषामुपग्राहको धर्माधर्मावपेक्षाकारणमाकाशकालादिवन निवर्तकं कारणम्, निर्वतकं हि तदेव जीवद्रव्यं पुद्गलद्रव्यं वा गतिस्थितिक्रियाविष्टम्, धर्माधर्मों पुनरुपग्राहकावनुपघातकावनुग्राहकावित्यर्थः । स्वभावत एव हि गतिस्थितिपरिणतानि द्रव्याणि तावुपगृहीतः, १ 'वृद्धिर्न समस्ति' इति क-ख-पाठः । २ ०पग्रहो धर्मा०' इति घ-पाठः । ३ - निवर्तकं ' इति क-ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org