Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चंद्रसूर्यादिविस्फोटो महावायुमहातपः । दुर्वाक्यानि द्विचत्वारिं--श स्वप्नाः प्रकीर्तिताः ॥२०॥ दर्शनं स्पर्शनं चैषां प्रवेशारोहसङ्गमाः । आगमः श्रवणं चैव स्वदेहे विशनं तथा ॥२१॥ देशे ग्रामे स्थितिश्चैषां महाकष्टप्रदायिनी। , महारोगमहादुःख--महापापकरा अमी ॥२२॥ स्त्रीणां वैधव्यजनका नृपाणा राज्यमनन्दाः । . देशस्य नाशकर्तारी मुनेधर्मक्षयङ्कराः ॥२३॥ अन्येषां पतनायैव देहाद्र वंशात्पदादपि । मृत्यवे कापि जायन्ते प्रध्वंसाय निरन्तरम् ।२४॥ इति. द्वासप्ततिस्वप्ना निजदेहादहिर्गताः । व्याख्यातं फलमेतेषां पूर्वशास्त्रानुसारतः ॥२५॥ नरा विहङ्गास्तिव्येचो वस्तून्यन्यानि यानि च । स्वप्ने शुभानि भद्राय विपरीतानि चान्यथा ॥२६॥ इति रुद्रपल्लीयनच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदीपे स्वात्मावबोधजस्वप्नाधिकारे द्वासप्ततिमहास्वप्नविचारो द्वितीयोद्योतः समाप्त: ।। २ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19