Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कूपदिलङ्घनालाभः कोऽप्यचिन्त्यः प्रजायते । तारासूर्येन्दुसंस्पर्शे महत्त्वं महदादिशेत् ॥४०॥ यदुक्तमेषां मध्ये तु जागरे दुःखसंश्रयम् । तच्छुभं शेषमशुभं स्वप्ने प्रोक्तं विचक्षणः ॥४१॥ शुभमप्यशुभं यच्च स्वप्ने कथितमुत्तमः । तत्तथा शेषमादिष्टं निद्यं नियं शुभं शुभम् ॥४२॥ इति रुद्रपल्लीयगच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदोपे स्वात्मावबोधजस्वप्नाधिकारे शुभस्वप्नविचार स्तृतीय उद्योतः समाप्तः ॥ ३॥ ।। अथ अशुभस्वप्न विचारश्चतुर्थ उद्योतः ।। अथ दुःस्वप्नजफलं यथाशास्त्र प्रकाश्यते । रोगचिन्ताधभावेन जायते तस्य निश्चयः ॥१॥ सङ्गीते निश्चयाच्छोको हास्ये बैलक्ष्यमञ्जसा । नृत्ये कुलस्य पीडा च रोग: स्यादेहभूषणे ॥२॥ रक्तगन्धः स्त्रगासङ्गे मरणं वा महागदः । मातगर्भप्रवेशे तु सङ्कट महदादिशेत् ॥३॥ नखकेशश्मश्रुद्धौ ऋणरोगौ न संशयः । यावन्न मुण्डनस्वप्नः पुनरेव हि जायते ॥४॥ नामेरन्यत्र दुर्वाद-प्ररोहे न शुभं कचित् ।। पक्षिनीडो निजे देहे ध्रुवं दारिद्रयकारकः ॥५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19