Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri
Publisher: Vardhamansuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वप्ने मुण्डितमभ्यक्तं रक्तगन्धं स्रगम्बरम् । यदा स्वप्नं निरीक्षेत मृत्युर्मासै स्त्रिभिस्तदा ॥१६॥ स्वप्ने स्वं भक्षयमाणं श्व-गृध्रकाकनिशाचरैः। उद्ययाणं खरोष्ट्राद्यैर्यदा पश्येत्तदा मृतिः ॥१७॥ छदिमूत्रं पुरीषं पा सुवर्णरजतानि वा । स्वप्ने पश्येद्यदि तदा मासान्नवैव जीवति ॥१८॥ शस्त्रघाते व्रणोत्पत्ति--दस्थ्यिं वस्त्रे पटचरे । मृतिम तालिङ्गने च दुःखं दुषदर्शने ॥१६॥ कवचादिपरीधाने विकारो रक्तसम्मका । कुशेन्धनादिसम्प्राप्तौ रोगे मृत्युः स्ववेश्मनि ॥२०॥ सर्पवृश्चिकखजूरैः प्रविष्टैः कस्य नाशिके । ध्रुवं भवेत्तयोश्छेदो बन्धनं सर्पवेष्टनैः ॥२१॥ स्तम्भभङ्गे मुख्यमृत्यु-गृहपाते कुलक्षयः । महाधृष्टौ महातापो दहने हिमपातनम् ॥२२॥ महानद्यादिपूरे च परचक्रे निजं भयम् । गिरिगे परचक्र' तु वृक्षशोषेऽप्यवर्षणम् ॥२३॥ अङ्गारसर्वपाषाण-रजोरक्तादिवृष्टितः । तत्र देशे विजानीयाद् दुर्भिक्षं राजविड्म्बरम् ॥२४॥ अशुभैः शकुनैः सर्वै स्वप्ने दृष्टैर्महीस्पृशाम् । यत्प्रत्यक्षः फलं शास्त्रे तदेव फलमादिशेत् ॥२५॥
For Private And Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19