Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ शकुनानि समस्तानि स्वप्ने दृष्टानि मानवैः । शुभानि स्युः सुखदानि दुःखदान्य शुभानि तु ॥३६॥ चाचामगोचरं यत्स्या - दचिन्त्यं यन्मनोरथैः । पूर्वपूर्वभवाभ्यस्तं दृश्यते स्वप्नगं हि यत् ॥ ३७|| चिन्ता प्रकोपाद्यभावे यत्स्वप्नं दृश्यते नरैः । तत्सर्वं सफलं बुद्ध्या व्याख्येयं शास्त्रधीमता ||३८|| अपरः स्वप्नविचारः कथं शास्त्रे निबद्धयते । यावान् पूर्व विनिर्दिष्ट - स्वावानत्रोदितो मया || ३६ || शेषं शकुनवच्छास्त्र - बुद्धिमादाय बुद्धिमान् । व्याकरोतु यथाबुद्धि यथौचित्याच्छुभाशुभम् ||४०|| इति रुद्रपल्लीयगच्छे श्रीवर्धमानसूरिकृते स्वप्नप्रदीपेस्वात्मावबोधजस्वप्नाधिकारेऽशुभ स्वप्न विचारचतुथ उद्योतः समाप्तः || ४ || ॥ अथ शुभाशुभविचारः पञ्चम उद्योतः ॥ स्वप्नानन्तरकर्तव्यं कथयामि यथाविधि । किं कर्तव्यं शुभे स्वप्ने विरुद्धे क्रियते च किम् ॥ १ ॥ प्रकोपचिन्तानिर्मुक्तः स्वप्नं दृष्ट्ा शुभं नरः । प्रबुद्धो यस्तु जीवेति जय नन्देतिवाङ्मुखः ॥ २ ॥ || For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19