Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri
Publisher: Vardhamansuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुखासननिविष्टः सन् स्वप्नस्मरणतत्परः । निजेष्टदेवतामन्त्र-स्तोत्रनामग्रहान्वितः ॥३॥. नमोऽस्तु ते जगन्नाथे जगत्स्वामिनि चाम्बिके । प्रयच्छ प्रार्थयामि त्वां स्वप्नस्यामुष्य मे फलम् ॥ ४ ॥ इति वाणी वदन वारं-वारं शुभकथापरः । नयेद्विभावरी शेषां यावत्सूर्योदयो भवेत् ॥ ५॥ मलमूत्रे ह्यनुत्सृज्य दुःश्रवाच्छादितश्रवाः । मूर्खाणां कृपणानां च स्त्रीजितानां च पापिनाम् ।' ६ ॥ दुर्भाषिणां द्वेषिणां च खलानां गुरुनिन्दिनाम् । मुखान्यपश्यन्तेषां व्रजेत्स्वप्नमनुस्मरन् ॥ ७ ॥ राजानं स्वामिनं वापि मंत्रिणं बुद्धिशालिनं । गुरु विप्रं लिङ्गिनं च बजेत् स्वप्नाथेचाधिनम् ॥ ८॥ फलं पुष्पं तथा द्रव्यं तस्योगायनतां नयेत् । तं प्रणम्य महाभक्त्या स्वप्नं तस्याग्रतो वदेत ॥६॥ तन्मुखात्तत्फलं श्रुत्वा जय जीवेतियाग्नरः । पुनः प्रणम्य सत्कारं तस्य कुर्याद्विशेषतः ॥१०॥ स्त्रीणां च मूढबुद्धीनां बालानां पापिना पुरः । शुभं स्वप्नं न चाख्येयं न श्राव्यं तन्मुखात् फलम् ॥११॥ तथा विलोक्य दुःस्वप्नं पुनः शयनमाचरेत् । अमङ्गलं प्रतिहतं वाचमेवं वदेत्ततः ॥१२।।
For Private And Personal Use Only

Page Navigation
1 ... 16 17 18 19