Book Title: Swapna Pradip Shakun Saroddhar Author(s): Vardhamansuri Publisher: Vardhamansuri View full book textPage 1
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ।। अहम् ॥ तपोमूर्तिपूज्याचार्यदेव श्रीविजय कपुरसरिभ्यो नमः श्रीरुद्रपल्लीयगच्छीयाचार्य श्रीवर्धमानसूरिविरचितः ॥ श्रीस्वप्नपदीपः (स्वात्मावबोधजस्वप्नाधिकारः)॥ ॥ अथ दैवतस्वप्नविचाररूप. प्रथम उद्योतः॥ . परात्मानं नमस्कृत्य परमात्मावबोधजम् । पूर्वशास्त्रानुरोधेन किश्चित्स्वप्नफलं ब्रुवे ॥१॥ स्वप्नश्चतुर्विधः प्रोक्तो देवः स्वानुभवप्रजः । धातुप्रकोपजश्चैव चिन्तोद्भूतश्चतुर्थकः ॥२॥ द्वावाद्यौ सफलावन्यौ निष्फलौ द्वौ दिवानिशम् । आयः सदा द्वितीयस्तु निशि सौख्यस्थितस्य च ॥३॥ देवयक्षादयो विप्रा गावो राजा च लिङ्गिनः । पितरो देवमतिश्च वाक्चेष्टैषां च दैवतम् ॥४॥ सुखस्थस्य महास्वप्नः पूर्वकर्मानुसारतः । यो भाविसूचकः स्वप्नः स शेयः स्वानुभावजा ॥५॥ वातपित्तमलश्लेष्म-मूत्रमालिन्यरोगज: दुःशय्यादिभवः स्वप्नः स शेयो दोषजोऽफलः ॥६॥ For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 ... 19