Book Title: Swapna Pradip Shakun Saroddhar
Author(s): Vardhamansuri
Publisher: Vardhamansuri

View full book text
Previous | Next

Page 10
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० द्रविणं मांसलामे तु प्रमोदो मद्यलाभतः । घृतमीनादिलामे तु भवेद् गृहमहोत्सवः ॥१०॥ उपानहाँ पादुकानां छत्रवाहनयोरपि । खड़गस्य लामे निर्देश्यं निश्चयात् स्वजनं नृणाम् ॥११॥ कुकटीवडवाक्रोञ्ची--महिषीणां च लाभतः ।। . पक्षिणानां च जायेत स्त्रीलाभो नात्र संशयः ॥१२॥ शस्यलाभे विवाहः स्यात् प्रीतिस्तम्बूललामतः । वस्त्रलामे च सन्मानं पदं दुग्धस्य लामतः ॥१३॥ मञ्जिष्ठादिद्रव्यलामे स्वजनैः प्रीतिरुत्तमा । शृङ्गारचामरादीनां लामे सिंहासनस्य च ॥१४॥ सौभाग्यमायुरारोग्यं राज्यं चैव विनिर्दिशेत् । सिद्धिः स्यान्मन्त्रलाभे तु धान्य लाभे धनं धनम् ॥१५ महत्त्वं रत्नलामे तु प्रभुता नरलाभतः । इत्यादिशुभवस्तूना लामा सर्वसुखावहः ॥१६॥ क्षीरामभोजने विद्या यशस्तु दधिभोजने । पञ्चगव्याशने कल्यं सर्पिषो भोजने जयः ॥१७॥ नरमांसाशने लक्ष्मी--नृपत्वं नृशिरोऽशने । शेषमांसाशने द्रव्य-मामे पक्के सुखं पुनः॥१८॥ तिलमाषखलान् मुक्त्वा शेषान्नस्याशने धनम् । मद्यपाने महालाभो जलपानेऽप्यरोगता ॥१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19