Book Title: Swadhyay 2001 Vol 38 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 90
________________ Shri Mahavir Jain Aradhana Kendra ८९ www.kobatirth.org ॥ डाकुरेशस्तोत्रम् ॥ श्रीद्वारावतियात्रयातिविकलः षण्मासि मास्यच्युतं नित्यं षष्टिसमाः करस्थतुलसीपत्रैः समर्च्याभवत् । दृष्ट्वा भक्तजरां कृपार्द्रहृदयः कृष्णः स्वकीयां पुरीं हित्वा गुर्जरङ्कनाथनिकटे दासालयं त्वाश्रितः || १॥ तं ब्रह्मादिनिषेवितं कलिमलप्रध्वंसकं ज्ञानदं सर्वेषामघकारिणामघहरं स्वात्मानमानन्ददम् । भक्ताभीष्टफलप्रदं मुनिवरैर्ध्यातं हृदम्भोरुहे संसारार्णवतारकं भयहरं सेवध्वमत्युत्सुकाः ||२|| श्रीमच्चारुमुखाम्बुजोपरिलसन्नासाग्रमुक्ताफलं कर्णद्योतितलोलकुण्डलतडिद्गलश्रिया शोभितम् । कण्ठे कौस्तुभमौक्तिकैर्मरकतैश्चञ्चत्प्रभाभासुरं हस्तैः कञ्जगदासुदर्शनदरान्नित्यं वहन्तं भजेत् || ३ || काञ्चीदामविभूषितं कटितटं पीताम्बरं सुन्दरं ध्यायेन्नूपुरनादितं पदयुगं जङ्घोरुजानुद्वयम् । एवं ध्यानपरा विरचितनया भक्तैः समभ्यर्चितं सेवन्तो भगवत्पदाब्जयुगलं नित्यं स्थिताः सन्निधौ ||४|| नानासाधनश्रान्तजीवमनसां स्वात्मैकतामुद्यतं कर्तुं रागिषु रागितां स्वविषये मुक्तेषु दास्यात्मताम् । हंस गोपिमनोविलासकुशलं सेवैकगम्यं परं यो रङ्कः प्रतिमासमागमकरो राकोत्सवे रङ्कतां ज्ञात्वा लोकविचक्षणा भुवि हरिं भक्त्या भजन्तेऽनिशम् ||५|| त्यक्त्वा पुत्रधनादिभोगसहितां लोके सदा मोदते । अन्ते गच्छति वैनतेयरहणं चारुह्य सर्वोत्तमं वैकुण्ठं हरिपार्षदैः समकृतिर्ब्रह्मादिभिः संस्तुतः ||६|| Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only મિલિન્દ એસ. જોષી

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118