Book Title: Sutrakritanga Sutra Part 02
Author(s): Jayanandvijay
Publisher: Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 13
________________ सूत्रकृताङ्गे भाषानुवादसहिते पञ्चमाध्ययने प्रथमोद्देशके: प्रस्तावना केकय किराय हयमुह खरमुह गयतुरगमेढगमुहा2 य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ||३|| पावा य चंडदंडा' अणारिया णिग्विणिरणुकंपा' । धम्मोत्ति अक्खराई जेसु ण णज्जंति सुविणेऽवि ॥४॥ नरकाधिकारः कालविभक्तिस्तु अतीतानागतवर्तमानकालभेदात्त्रिधा, यदिवैकान्तसुषमादिकक्रमेणावसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारं कालचक्रं, अथवा समयावलियमुहुत्ता' दिवसमहोरत्तपक्खमासा य । संवच्छरयुगपलिया सागर उस्सप्पि परियट्टे ||१|| " त्येवमादिका कालविभक्तिरिति, भावविभक्तिस्तुजीवाजीवभावभेदाद्विधा, तत्र जीवभावविभक्तिः औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकभेदात् षट्प्रकारा, तत्रैौदयिको गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्त्वचारित्रभेदाद् द्विविधः, क्षायिकः सम्यक्त्वचारित्रज्ञानदर्शनदानलाभभोगोपभोगवीर्यभेदान्नवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः तथा सम्यक्त्वचारित्रसंयमासंयमभेदक्रमेणाष्टादशधेति, पारिणामिको जीवभव्याभव्यत्वादिरूपः, सान्निपातिकस्तु द्विकादिभेदात् षड्विंशतिभेदः, संभवी तु षड्विधोऽयमेव गतिभेदात्पञ्चदशधेति। अजीवभावविभक्तिस्तु मूर्तानां वर्णगन्धरस-स्पर्शसंस्थानपरिणामः, अमूर्तानां गतिस्थित्यवगाहवर्तनादिक इति ॥ ६४ ॥ | साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाह पुढवीफासं अण्णाणुवक्कमं णिरययालयहणं च । तिसु वेदेति अताणा अणुभागं चेव सेसासु ॥६५॥ नि० पृथिव्या:- शीतोष्णरूपायास्तीव्रवेदनोत्पादको यः स्पर्शः - सम्पर्कः पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टिअन्येन देवादिना उपक्रमितुम्-उपशमयितुं यो न शक्यते सोऽन्यानुपक्रमस्तम्, अपराचिकित्स्यमित्यर्थः, तमेवम्भूतमपरासाध्यं पृथिवीस्पर्शं नारकाः समनुभवन्ति, उपलक्षणार्थत्वाच्चास्य 7 रूपरसगन्धस्पर्शशब्दानप्येकान्तेनाशुभान्निरुपमाननुभवन्ति, तथा नरकपालैः - पञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्गरासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याद्यासु 'तिसृषु' रत्नशर्करावालुकाख्यासु पृथिवीषु स्वकृतकर्मफलभुजो नारका 'अत्राणा' अशरणाः प्रभूतकालं यावदनुभवन्ति, 'शेषासु' चतसृषु पृथिवीषु पङ्कधूमतमोमहातमः प्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि स्वत एव तन्कृत-वेदनायाः सकाशाद्यस्तीव्रतरोऽनुभावो विपाको वेदनासमुद्घातस्तमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्तीति ॥६५॥ साम्प्रतं परमाधार्मिकानामाद्यासु तिसृषु पृथिवीषु वेदनोत्पादकान् स्वनामग्राहं दर्शयितुमाह अंबे अंबरिसी चेय, सामे य सबले वि य । रोद्दोवरुद्द काले य, महाकालेत्ति आवरे असिपत्ते धणुं कुंभी, वालु वेयरणी वि य । खरस्सरे महाघोसे, एवं पण्णरसाहिया - ॥६६॥ नि० ॥६७॥ नि० गाथाद्वयं प्रकाटार्थम्, एवं ते चाम्बइत्यादयः परमाधार्मिका यादृक्षां वेदनामुत्पादयन्ति प्रायोऽन्वर्थसंज्ञत्वात्तादृशाभिधाना एव द्रष्टव्या इति, साम्प्रतं स्वाभिधानापेक्षया यो यां वेदनां परस्परोदीरणदुःखं चोत्पादयति तां दर्शयितुमाह धाडेंति य हार्डेति य हणंति विंधंति तह णिसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ ओहहये य तहियं णिस्सन्ने कृप्पणीहि कप्पंति । बिदलगचडुलगछिन्ने अंबरिसी तत्थ णेरइए साडणपाडणतोदण बंधणरज्जुल्लयप्पहारेहिं । सामा णेरइयाणं पयत्तयंती अपुण्णाणं अंतगयफिफ्फिसाणि य हिययं कालेज्ज फुप्फुसे वक्के । सबला गेरतियाणं कड़्ढेंति तहिं अपुन्नाणं ॥ ७१ ॥ नि० रइया ॥ ६८ ॥ नि०| ॥६९॥ नि० ॥७०॥ नि० 1. कैकेयकिरातहयमुखखरमुखाः गजतुरगमेण्ढमुखाय हयकर्णा गजकर्णाः अन्ये च अनार्या बहवः ||9|| 2. तह प्र० । 3. पापाथण्डदण्डाः अनार्यानिर्घणा निरनुकम्पाः धर्म इति अक्षराणि यैर्न ज्ञायते स्वप्नेऽपि ॥9॥ 4. रुद्दा प्र० । 5. निरणुतावी प्र० । 6. समय आवलिका मुहूर्तः दिवसोऽहोरात्रं पक्षो मासव संवत्सरं युगं पल्यं सागर उत्सर्पिण्यवसर्पिण्यो पुद्गलपरावर्तः ।।१।। 7. गंध रस इति प्र० । 8. वोहण० टीका । २९५

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 364