________________
सूत्रकृताङ्गे भाषानुवादसहिते पञ्चमाध्ययने प्रथमोद्देशके: प्रस्तावना
केकय किराय हयमुह खरमुह गयतुरगमेढगमुहा2 य । हयकण्णा गयकण्णा अण्णे य अणारिया बहवे ||३||
पावा य चंडदंडा' अणारिया णिग्विणिरणुकंपा' । धम्मोत्ति अक्खराई जेसु ण णज्जंति सुविणेऽवि ॥४॥
नरकाधिकारः
कालविभक्तिस्तु अतीतानागतवर्तमानकालभेदात्त्रिधा, यदिवैकान्तसुषमादिकक्रमेणावसर्पिण्युत्सर्पिण्युपलक्षितं द्वादशारं कालचक्रं, अथवा समयावलियमुहुत्ता' दिवसमहोरत्तपक्खमासा य । संवच्छरयुगपलिया सागर उस्सप्पि परियट्टे ||१|| " त्येवमादिका कालविभक्तिरिति, भावविभक्तिस्तुजीवाजीवभावभेदाद्विधा, तत्र जीवभावविभक्तिः औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकभेदात् षट्प्रकारा, तत्रैौदयिको गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदक्रमेणैकविंशतिभेदभिन्नः, तथौपशमिकः सम्यक्त्वचारित्रभेदाद् द्विविधः, क्षायिकः सम्यक्त्वचारित्रज्ञानदर्शनदानलाभभोगोपभोगवीर्यभेदान्नवधा, क्षायोपशमिकस्तु ज्ञानाज्ञानदर्शनदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः तथा सम्यक्त्वचारित्रसंयमासंयमभेदक्रमेणाष्टादशधेति, पारिणामिको जीवभव्याभव्यत्वादिरूपः, सान्निपातिकस्तु द्विकादिभेदात् षड्विंशतिभेदः, संभवी तु षड्विधोऽयमेव गतिभेदात्पञ्चदशधेति। अजीवभावविभक्तिस्तु मूर्तानां वर्णगन्धरस-स्पर्शसंस्थानपरिणामः, अमूर्तानां गतिस्थित्यवगाहवर्तनादिक इति ॥ ६४ ॥ | साम्प्रतं समस्तपदापेक्षया नरकविभक्तिरिति नरकाणां विभागो विभक्तिस्तामाह
पुढवीफासं अण्णाणुवक्कमं णिरययालयहणं च । तिसु वेदेति अताणा अणुभागं चेव सेसासु ॥६५॥ नि०
पृथिव्या:- शीतोष्णरूपायास्तीव्रवेदनोत्पादको यः स्पर्शः - सम्पर्कः पृथिवीसंस्पर्शस्तमनुभवन्ति, तमेव विशिनष्टिअन्येन देवादिना उपक्रमितुम्-उपशमयितुं यो न शक्यते सोऽन्यानुपक्रमस्तम्, अपराचिकित्स्यमित्यर्थः, तमेवम्भूतमपरासाध्यं पृथिवीस्पर्शं नारकाः समनुभवन्ति, उपलक्षणार्थत्वाच्चास्य 7 रूपरसगन्धस्पर्शशब्दानप्येकान्तेनाशुभान्निरुपमाननुभवन्ति, तथा नरकपालैः - पञ्चदशप्रकारैः परमाधार्मिकैः कृतं मुद्गरासिकुन्तक्रकचकुम्भीपाकादिकं वधमनुभवन्त्याद्यासु 'तिसृषु' रत्नशर्करावालुकाख्यासु पृथिवीषु स्वकृतकर्मफलभुजो नारका 'अत्राणा' अशरणाः प्रभूतकालं यावदनुभवन्ति, 'शेषासु' चतसृषु पृथिवीषु पङ्कधूमतमोमहातमः प्रभाख्यासु अनुभावमेव परमाधार्मिकनरकपालाभावेऽपि स्वत एव तन्कृत-वेदनायाः सकाशाद्यस्तीव्रतरोऽनुभावो विपाको वेदनासमुद्घातस्तमनुभवन्ति परस्परोदीरितदुःखाश्च भवन्तीति ॥६५॥ साम्प्रतं परमाधार्मिकानामाद्यासु तिसृषु पृथिवीषु वेदनोत्पादकान् स्वनामग्राहं दर्शयितुमाह अंबे अंबरिसी चेय, सामे य सबले वि य । रोद्दोवरुद्द काले य, महाकालेत्ति आवरे असिपत्ते धणुं कुंभी, वालु वेयरणी वि य । खरस्सरे महाघोसे, एवं पण्णरसाहिया
-
॥६६॥ नि० ॥६७॥ नि०
गाथाद्वयं प्रकाटार्थम्, एवं ते चाम्बइत्यादयः परमाधार्मिका यादृक्षां वेदनामुत्पादयन्ति प्रायोऽन्वर्थसंज्ञत्वात्तादृशाभिधाना एव द्रष्टव्या इति, साम्प्रतं स्वाभिधानापेक्षया यो यां वेदनां परस्परोदीरणदुःखं चोत्पादयति तां दर्शयितुमाह
धाडेंति य हार्डेति य हणंति विंधंति तह णिसुंभंति । मुंचंति अंबरतले अंबा खलु तत्थ ओहहये य तहियं णिस्सन्ने कृप्पणीहि कप्पंति । बिदलगचडुलगछिन्ने अंबरिसी तत्थ णेरइए साडणपाडणतोदण बंधणरज्जुल्लयप्पहारेहिं । सामा णेरइयाणं पयत्तयंती अपुण्णाणं अंतगयफिफ्फिसाणि य हिययं कालेज्ज फुप्फुसे वक्के । सबला गेरतियाणं कड़्ढेंति तहिं अपुन्नाणं ॥ ७१ ॥ नि०
रइया ॥ ६८ ॥ नि०| ॥६९॥ नि० ॥७०॥ नि०
1. कैकेयकिरातहयमुखखरमुखाः गजतुरगमेण्ढमुखाय हयकर्णा गजकर्णाः अन्ये च अनार्या बहवः ||9|| 2. तह प्र० । 3. पापाथण्डदण्डाः अनार्यानिर्घणा निरनुकम्पाः धर्म इति अक्षराणि यैर्न ज्ञायते स्वप्नेऽपि ॥9॥ 4. रुद्दा प्र० । 5. निरणुतावी प्र० ।
6. समय आवलिका मुहूर्तः दिवसोऽहोरात्रं पक्षो मासव संवत्सरं युगं पल्यं सागर उत्सर्पिण्यवसर्पिण्यो पुद्गलपरावर्तः ।।१।।
7. गंध रस इति प्र० । 8. वोहण० टीका ।
२९५