________________
सूत्रकृताङ्गे भाषानुवादसहिते पञ्चमाध्ययने प्रथमोद्देशः प्रस्तावना
नरकाधिकारः नरकान्तर्वर्तिनो जीवास्तथा नारकायुष्कोदयापादितासातावेदनीयादिकर्मोदयाश्चैतद् द्वितयमपि भावनरक इत्यभिधीयते इति, तदेवं 'श्रुत्वा' अवगम्य तीव्रमसह्यं 'नरकदुःखं क्रकचपाटनकुम्भीपाकादिकं परमाधार्मिकापादितं परस्परोदीरणाकृतं स्वाभाविकं च ' तपश्चरणे' संयमानुष्ठाने नरकपातपरिपन्थिनि स्वर्गापवर्गगमनैकहेतावात्महितमिच्छता 'प्रयतितव्यं' परित्यक्तान्यकर्तव्येन यत्नो विधेय इति ॥ ६२-६३ ।। साम्प्रतं विभक्तिपदनिक्षेपार्थमाहणामंठवणादविए खेत्ते काले तहेव भावे य । एसो उ विभत्तीए णिक्खेयो छव्विहो होइ
॥६४॥ नि० विभक्तेर्नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नामविभक्तिर्यस्य कस्यचित्सचित्तादेर्द्रव्यस्य विभक्तिरिति नाम क्रियते, तद्यथा - स्वादयोऽष्टौ विभक्तयस्तिबादयश्च स्थापनाविभक्तिस्तु यत्र ता एव प्रातिपदिकाद् धातोर्वा परेण स्थाप्यन्ते पुस्तकपत्रकादिन्यस्ता वा, द्रव्यविभक्तिर्जीवाजीवभेदाद् द्विधा, तत्रापि जीवविभक्तिः सांसारिकेतरभेदाद् द्विधा, तत्राप्यसांसारिकजीवविभक्तिर्द्रव्यकालभेदात् द्वेधा, तत्र द्रव्यतस्तीर्थातीर्थसिद्धादिभेदात्पञ्चदशधा, कालतस्तु प्रथम समयसिद्धादिभेदादनेकधा, सांसारिकजीवविभक्तिरिन्द्रियजातिभवभेदात्त्रिधा, तत्रेन्द्रियविभक्तिः - एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियभेदात्पञ्चधा, जातिविभक्ति:- पृथिव्यप्तेजोवायुवनस्पतित्रसभेदात् षोढा, भवविभक्तिर्नारकतिर्यङ्मनुष्यामर भेदाच्चतुर्धा, अजीवद्रव्यविभक्तिस्तु रूप्यरूपिद्रव्यभेदाद् द्विधा, तत्र रूपिद्रव्यविभक्तिचतुर्धा, तद्यथा-स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेशा: परमाणुपुद्गलाश्च, अरूपिद्रव्यविभक्तिर्दशधा, तद्यथा - धर्मास्तिकायो, धर्मास्तिकायस्य देशो, धर्मास्तिकायस्य प्रदेशः, एवमधर्माकाशयोरपि प्रत्येकं त्रिभेदता द्रष्टव्या, अद्धासमयश्च दशम इति, क्षेत्रविभक्तिश्चतुर्धा, तद्यथा - स्थानं दिशं द्रव्यं स्वामित्वं चाश्रित्य तत्र स्थानाश्रयणादूर्ध्वाधस्तिर्यग्विभागव्यवस्थितो लोको वैशाखस्थानस्थपुरुष इव कटिस्थकरयुग्म इव' द्रष्टव्यः, तत्राप्यधोलोकविभक्ती रत्नप्रभाद्याः सप्त नरकपृथिव्यः, तत्रापि सीमन्तकादिनरकेन्द्रकावलिकप्रविष्टपुष्पावकीर्णकवृत्तत्र्यत्रचतुरस्रादिनरकस्वरूपनिरूपणं, तिर्यग्लोकविभक्तिस्तु जम्बूद्वीपलवणसमुद्रधातकीखण्डकालोदसमुद्रेत्यादिद्विगुणद्विगुणवृद्धया द्वीपसागरस्वयम्भूरमणपर्यन्तस्वरूपनिरूपणं, उर्ध्वलोकविभक्तिः सौधर्माद्या उपर्युपरिव्यवस्थिता द्वादश देवलोकाः नव ग्रैवेयकानि पञ्च महाविमानानि, तत्रापि विमानेन्द्रकावलिकाप्रविष्टपुष्पावकीर्णकवृत्तत्र्यस्रचतुरस्रादिविमानस्वरूपनिरूपणमिति, दिगाश्रयणेन तु पूर्वस्या दिशि व्यवस्थितं क्षेत्रमेवमपरास्वपीति, द्रव्याश्रयणाच्छालिक्षेत्रादिकं गृह्यते, स्वाम्याश्रयणाच्च देवदत्तस्य क्षेत्रं यज्ञदत्तस्य वेति, यदिवा- क्षेत्रविभक्तिरार्यानार्यक्षेत्रभेदाद् द्विधा, तत्राप्यार्यक्षेत्रमर्धषड्विंशतिजनपदोपलक्षितं राजगृहमगधादिकं गृह्यते,
'रायगिह 2 मगह चंपा अंगा तह तामलित्ति वंगाय । कंचणपुरं कलिंगा वाणारसी चेव कासी य ॥१॥ साकेय कोसला गयपुरं च कुरु सोरियं कुसट्टा य । कंपिल्लं पंचाला अहिछत्ता जंगला चेव ॥२॥ बारवई य सुरट्ठा मिहिल विदेहा य वच्छ कोसंबी । नंदिपुरं संदिब्भा भद्दिलपुरमेव मलया य ॥ ३ ॥ वइराड मच्छ वरणा अच्छा तह मित्तियावइ दसण्णा । सुत्तीमई य चेदी वीयभयं सिंधुसोवीरा ||४|| महुरा य सूरसेणा पावा भंगी य मासपुरिवट्टा । सावत्थी य कुणाला, कोडीवरिसं च लाढा य ||५|| सेयवियाविय गरि केययअद्धं च आरियं भणियं । जत्थुप्पत्ति जिणाणं चक्कीणं रामकिण्हाणं ||६|| " अनार्यक्षेत्रं धर्मसंज्ञारहितमनेकधा, तदुक्तम्
"सग' जवण सबर बब्बर कायमुरुंडो दुगोणपक्कणया। अक्खागहूणरोमस पारसखसखासिया चेव ॥१॥ दुविलो' बोक्स भिल्लंद' पुल्लिंद कोंच भमर रूया ।
कोंबोय' चीण चंचुय मालय दमिला कुलक्खा य ||२||
1. इति प्र० । 2. राजगृहं मगधे चम्पा ताम्रलिप्तिर्वशे काञ्चनपुरं कलिङ्गे वाणारसी काश्याम् ||१|| साकेतं कौशले गजपुरं च कुरुषु सौरिकं कुशार्ते च काम्पिल्यं पञ्चालायां अहिच्छत्रं जङ्गलायां चैव || २ || द्वारवती सुराष्ट्रायां मिथिला विदेहेषु वत्से कौशाम्बी नन्दीपुरं साण्डिल्ये भद्रिलपुरं मलये ||३|| वैराटं वच्छे वरणे अच्छा मृत्तिकावती दशार्णे शुक्तिमती चेदिके वीतभयं सिन्धौ सौवीरे ||४|| मथुरा च शूरसेने पापायां भङ्गं मासा पुर्यां श्रावस्तिश्च कुणालायां कोटीवर्षं च लाटे च || ५ || श्वेताम्बिकापि च नगरी कैकेय्यर्द्धं चार्यं भाणितं यत्रोत्पत्तिर्जिनानां चक्रिणां रामकृष्णानां ॥६॥ 3. वाराणसी प्र० । 4. शकयवनशबरबर्बरकायमुरुडदुडगौडपक्कणिकाः आख्याकहुणरोमाः पारसखसखासिकाचैव ||१||
5. द्विबलमलौसबुक्कसाः भिलान्ध्र पुलिन्द्र क्रौञ्चभ्रमररुकाः क्रोशाच चीनचछुकमालवद्रमिलकुलाख्याच ||9|| 6. भिल्लन्ध प्र० । 7. कौंचा य प्र० ।
२९४