Book Title: Sutrakritanga Sutra Part 02
Author(s): Jayanandvijay
Publisher: Ramchandra Prakashan Samiti

View full book text
Previous | Next

Page 14
________________ सूत्रकृताङ्गेभाषानुवादसहिते पञ्चमाध्ययने प्रथमोद्देशकेः प्रस्तावना नरकाधिकारः असिसत्तिकोततोमरसूलतिसूलेसु सूचियगासु । पोयंति रुद्दकम्मा उ णरगपाला तहिं रोद्दा ॥७२॥ नि भंजंति अंगमंगाणि ऊरूबाहूसिराणि करचरणे । कप्पेति कप्पणीहिं उवरुद्दा पावकम्मरया ॥७३॥ नि० मीरास सुंठएस य कंडस य पयंडएस य पयंति । कुंभीस य लोहिएस य पयंति काला कप्पंति कागिणीमंसगाणि छिंदंति सीहपुच्छाणि । खायंति य- णेरइए महकाला पावकम्मरए ॥५॥ नि हत्थे पाए ऊरू बाहुसिरापायअंगमंगाणि । छिंदंति पगाम तू असि हेरइए निरयपाला ॥६॥ नि। कण्णोट्ठणासकरचरणदसण?ण मुग्गऊरुबाहुणं । छेयणभेयणसाडण असिपत्तथणूहि पाडंति ॥७७॥ नि कुम्भीसु य पयणेसु य लोहियसु य कंदुलोहिकुंभीसु । कुंभी य णरयपाला हणंति पाडं (यं) ति णरएसु॥७८॥नि। तडतडतडस्स भज्जंति भज्जणे कलंबुवालुगापट्टे । यालूगा णेरड्या लोलंती अंबरतलंमि ॥७९॥ नि। पूयरुहिरकेसट्ठियाहिणी कलकलेंतजलसोया । वेयरणिणिरयपाला णेरइए ऊ पयाहति ॥८॥ नि०॥ कप्पेंति करकएहिं तच्छिंति परोप्परं परसुएहिं । सिंबलितरुमारुहंती खरस्सरा तत्थ गेरइए ॥८१॥ नि भीए य पलायंते समंततो तत्थ ते णिरुंभंति । पसुणो जहा पसुवहे महघोसा तत्थ गेरइए ॥२॥ नि। तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनान्नरकावासं गत्वा क्रीडया नारकान् अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो 'धाडेंति'त्ति प्रेरयन्ति- स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः, तथा 'पहाडेंति'त्ति स्वेच्छयेतश्चेतश्चानाथं भ्रमयन्ति, तथा अम्बरतले प्रक्षिप्य पुननिपतन्तं मुद्गरादिना घ्नन्ति, तथा शूलादिना विध्यन्ति, तथा 'निसुंभंति'त्ति कृकाटिकायां गृहीत्वा भूमौ पातयन्ति अधोमुखान्, तथोत्क्षिप्य अम्बरतले मुञ्चन्तीत्येवमादिकया विडम्बनया 'तत्र' नरकपृथिवीषु नारकान् कदर्थयन्ति । किञ्चान्यत्-उप-सामीप्येन मुद्गरादिना हता उपहताः, पुनरप्युपहता एव खड्गादिना हता उपहतहतास्तानारकान् 'तस्यां' नरकपृथिव्यां 'निःसंज्ञकान्' नष्टसंज्ञान् मूर्छितान्सतः कर्पणीभिः 'कल्पयन्ति' छिन्दन्तीतश्चेतश्च पाटयन्ति, तथा द्विदलचटुलकच्छिन्नानि ति मध्यपाटितान् खण्डशच्छिन्नांश्च नारकांस्तत्र-नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा- 'अपुण्यवतां' तीव्रासातोदये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतच्चैतच्च प्रवर्तयन्ति, तद्यथा- 'शातनम्' अङ्गोपाङ्गानां छेदनं, तथा 'पातनं' निष्कुटादधो वज्रभूमौ प्रक्षेपः, तथा 'प्रतोदनं' शूलादिना तोदनं, 4व्यधनं' (ग्रन्थाग्रम् ३७५०) सूच्यादिना नासिकादौ वेधस्तथा रज्ज्वादिना करकर्मकारिणं बध्नन्ति, तथा तादृग्विधलताप्रहारैस्ताडयन्त्येवं दुःखोत्पादनं दारुणं शातनपातनवेधनबन्धनादिकं बहुविधं 'प्रवर्तयन्ति' व्यापारयन्तीति, अपिच-तथा-सबलाख्या नरकपालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्वन्ति तदर्शयति, तद्यथा-अन्त्रगतानि यानि फिप्फिसानि-अन्त्रान्तर्वर्तीनि मांसविशेषरूपाणि तथा हृदयं पाटयन्ति तथा तद्गतं 'कालेज्जति हृदयान्तर्वति मांसखण्डं तथा 'फुप्फुसे'त्ति उदरान्तर्वर्तीन्यन्त्रविशेषरूपाणि तथा 'वल्कलान्' वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां तीव्रां वेदनामुत्पादयन्तीति । अपिच-तथा अन्वर्थाभिधाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति । तथा- उपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहरुकादीनि तथा करचरणांश्च 'भञ्जन्ति मोटयन्ति पापकर्माणः कल्पनीभिः 'कल्पयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्ते न कुर्वन्तीति । अपिच- तथा कालाख्या नरकपालासुरा 'मीरासुः दीर्घचुल्लीषु तथा शुण्ठकेषु तथा कन्दुकेषु प्रचण्डकेषु तीव्रतापेषु नारकान् पचन्ति, तथा 'कुम्भीषु' उष्ट्रिकाकृतिषु तथा 'लोहिषु' आयसकवल्लिष नारकान व्यवस्थाप्य जीवन्मत्स्यानिव पचन्ति । अपिच-महाकालाख्या नरकपालाः पापकर्मनिरता नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा- 'काकिणीमांसकानि' श्लक्ष्णमांसखण्डानि 'कल्पयन्ति' नारकान् कुर्वन्ति, तथा 'सीहपुच्छाणि'त्ति पृष्ठीवध्रास्ताश्छिदन्ति, तथा ये प्राकमांसाशिनो नारका आसन तान स्वमांसानि खादयन्तीति अपिच-असिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति, तद्यथा-हस्तपादोरुबाहुशिरःपाङदीन्यङ्गप्रत्यङ्गानि छिन्दन्ति 'प्रकामम्' अत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादनविशेषणार्थ इति । तथा-असिप्रधानाः 1. कंतुटु० प्र० । 2. पूओरु० प्र० । 3. कूष्माण्डवदायतं छित्त्वा यत्तिर्यक् छिद्यते वि० प्र० । 4. व्यधनं तथा । व्यथनं तथा । 5. किंच प्र० । २९६

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 364